Enter your Email Address to subscribe to our newsletters

कोयंबटूरम्, 11 अप्रैलमासः (हि.स.)।तमिलनाडु-राज्ये भारतीय-जनता-पार्टी (भाजपा) इत्यस्य पूर्वाध्यक्षः के. अन्नामलाई कुप्पुसामी द्रविड़-मुनेत्र-कड़गम् (द्रमुक) सरकारं प्रति गम्भीरान् आरोपान् कृत्वा उक्तवान् यत् भ्रष्टाचार-निरोधक-संस्थाभिः सरकारस्य विरुद्धं दत्तासु परिवादेषु अद्यापि किञ्चित् ठोस-कार्यं न कृतम्।
कोयंबटूर-नगरे पत्रकारैः सह संवादे अन्नामलाई उक्तवान् यत् सः प्रायः १६० कोटि-रूप्यकाणां भ्रष्टाचार-संबद्धानि प्रमाणानि भ्रष्टाचार-निरोधक-सतर्कता-निदेशालयाय समर्पितवान्, किन्तु अद्यापि अस्मिन् विषये किञ्चित् कार्यं न दृश्यते। सः अवदत् यत् अन्वेषण-अधिकारी भाजपा-कार्यालयं “कमलालयम्” पर्यन्तं प्राप्तवन्तः, तथापि प्रकरणे किञ्चित् प्रगति न अभवत्।
आगामि-विधानसभा-निर्वाचनं प्रति अन्नामलाई विश्वासं व्यक्तवान् यत् राष्ट्रीय-जनतान्त्रिक-गठबन्धनम् (राजग) २१० अधिक-आसनेषु विजयम् प्राप्तुम् अर्हति। सः अपि उक्तवान् यत् निर्वाचन-पराजयानन्तरं द्रमुक दलं विघटिष्यते, कनिमोझी च पृथक् दलं स्थापयितुं शक्नोति।
सः एतदपि उक्तवान् यत् तमिलनाडु-राज्ये द्रमुक पुनः सत्तां न प्राप्स्यति, तथा च सत्ता-परिवर्तनानन्तरं भ्रष्टाचारे संलग्नानां व्यक्तीनां विरुद्धं कठोर-कार्यवाही क्रियते, ते च कारागारं प्रेष्यन्ते।
चित्रपट-क्षेत्रे उत्पन्ने विषये प्रतिक्रिया दत्त्वा अन्नामलाई विजयस्य “जननायकन” इत्यस्य चित्रपटस्य लीक-घटनां तीव्रतया निन्दितवान्। सः उक्तवान् यत् दोषिणां विरुद्धं कठोर-कार्यवाही भवेत्। यदि अस्य प्रकरणस्य अन्वेषणं केन्द्रीय-अन्वेषण-विभागाय समर्प्यते, तर्हि भाजपा तस्य पूर्णं समर्थनं करिष्यति इति अपि सः अवदत्।
केन्द्रीय-मन्त्री एल. मुरुगन इत्यस्य नाम अस्मिन् विवादे योजितम् इति विषये सः “घृणायाः पराकाष्ठा” इति उक्तवान्।
कोयंबटूर-दक्षिण-आसनं प्रति अन्नामलाई सेन्थिल-बलाजीं चुनौतीं दत्त्वा आरोपं कृतवान् यत् सः “टास्मैक-धनस्य” आधारेण निर्वाचनं जेतुं प्रयतते, किन्तु अत्र सः इतिहासस्य महान् पराजयं अनुभविष्यति।
अतिरिक्ततया अन्नामलाई राज्ये विधि-व्यवस्थायाः स्थिति, वर्धमानं मादक-द्रव्य-प्रयोगः, सरकारी-विद्यालयानां पतिता-गुणवत्ता, तथा च आधारभूत-संरचनायाः अभावः इत्यादीनि विषयानि उक्त्वा अवदत् यत् एतेषां कारणानां कारणेन जनाः द्रमुक-सर्वकारात् असन्तुष्टाः सन्ति।
-------------
हिन्दुस्थान समाचार