Enter your Email Address to subscribe to our newsletters

सीएम डैशबोर्ड की मार्च माह की रिपोर्ट में हमीरपुर को मिला पहला स्थान
लखनऊ, 11 अप्रैलमासः (हि.स.)।
मुख्यमन्त्रिणो योगिनः आदित्यनाथस्य नेतृत्वे उत्तरप्रदेशः गत नववर्षेषु समग्रविकासस्य दिशि शीघ्रगत्या अग्रे गच्छति। अस्मिन् अवधौ प्रदेशे न केवलं मूलभूतसुविधानां विस्तारः जातः, अपितु समाजस्य सर्वेषां वर्गाणाम् उत्थानम् अपि सुनिश्चितं क्रियते। मुख्यमन्त्रिणः योगिनः स्वप्नानां साकारतायां “सीएम डैशबोर्ड” महत्त्वपूर्णां भूमिकां निर्वहति।
सीएम डैशबोर्डद्वारा जनश्रवणगोचरता, जनकल्याणकारी योजनाः तथा राजस्वकार्याणां निरन्तरं निरीक्षणं क्रियते, येन जनपदानां उत्तमान् प्रशासनिकमानकान् स्थापयितुं सहायता प्राप्यते। अस्यां श्रृंखलायां मार्चमासस्य प्रतिवेदने समग्रप्रदेशे हमीरपुर उत्कृष्टं प्रदर्शनं कृत्वा प्रथमस्थानं प्राप्तवान्, यदा बरेली द्वितीयं तथा रामपुर तृतीयं स्थानं प्राप्तवन्तौ।
सीएम डैशबोर्डद्वारा प्रदेशस्य सर्वेषु जनपदेषु ४९ विभागानां ११० कार्यक्रमाणां विविधमानकाधारेण समीक्षा क्रियते। ततः अनन्तरं जनपदानां क्रमाङ्कनं प्रकाशितं भवति।
मार्चमासस्य प्रतिवेदनानुसारं हमीरपुरः प्रदेशे प्रथमस्थानं प्राप्तवान्। बरेली जनपदः द्वितीयं तथा रामपुर जनपदः तृतीयं स्थानं प्राप्तवन्तः।
रामपुरस्य जिलाधिकारी अजय कुमार द्विवेदी अवदत् यत् सीएम डैशबोर्डप्रतिवेदनं तेषां जनपदानां प्रदर्शनस्य मूल्यांकनं करोति ये प्रशासनदक्षता, विकासकार्येषु तथा राजस्वप्रबन्धने उल्लेखनीयकार्याणि कृतवन्तः।
तेन उक्तं यत् शासनस्य अभिप्रायानुसारं रामपुरे विकासकार्याणि गुणवत्तया समयबद्धरूपेण सम्पन्नानि भवन्ति। अस्य कारणात् रामपुरः गत कतिपयमासान् यावत् मुख्यमंत्री-डैशबोर्डप्रतिवेदने शीर्षदशजनपदेषु स्वस्थानं धारयति।
हमीरपुरे विकासराजस्वकार्ययोः संयुक्तक्रमाङ्कने १० मध्ये ९.५५ अङ्काः प्राप्ताः। तथैव बरेली ९.५४ अङ्कान् प्राप्तवती।
सीएम डैशबोर्डप्रतिवेदनानुसारं रामपुरे १० मध्ये ९.५१ अङ्काः प्राप्ताः। तथैव मैनपुरी चतुर्थं तथा हरदोई पञ्चमं स्थानं प्राप्तवन्तौ। शीर्षदशजनपदेषु शाहजहांपुर, लखीमपुर खीरी, जालौन, सोनभद्र तथा कौशांबी अपि स्थानं प्राप्तवन्तः।
---------------
हिन्दुस्थान समाचार