श्री काशी विश्वनाथ मंदिरे पंक्ति प्रबंधनस्य समीक्षा, सहजतया दर्शनं करिष्यति श्रद्धालुम्
—मंदिर प्रबंधनं श्रद्धालूनां सुविधां वर्धयितुं बलम्,व्यापक स्तरे सज्जा वाराणसी, 11 अप्रैलमासः (हि.स.)। उत्तर प्रदेशस्य धार्मिकनगऱ्यां वाराणस्यां स्थिते श्रीकाशीविश्वनाथमन्दिरे दर्शनपूजनार्थं प्रतिदिनं लक्षशः श्रद्धालवः समागच्छन्ति। तेषां सुविधार्थ
श्री काशी विश्वनाथ मंदिर में दर्शन के लिए कतारबद्ध श्रद्धालु


श्री काशी विश्वनाथ मंदिर में दर्शन के लिए कतारबद्ध श्रद्धालु


—मंदिर प्रबंधनं श्रद्धालूनां सुविधां वर्धयितुं बलम्,व्यापक स्तरे सज्जा

वाराणसी, 11 अप्रैलमासः (हि.स.)। उत्तर प्रदेशस्य धार्मिकनगऱ्यां वाराणस्यां स्थिते श्रीकाशीविश्वनाथमन्दिरे दर्शनपूजनार्थं प्रतिदिनं लक्षशः श्रद्धालवः समागच्छन्ति। तेषां सुविधार्थं तथा दीर्घकालं यावत् प्रतीक्षा न कर्तव्या भवेत् इति हेतोः मन्दिरप्रशासनेन व्यापकाः व्यवस्थाः कृताः सन्ति। तीव्रग्रीष्मकालं दृष्ट्वा दर्शनार्थं पङ्क्तिव्यवस्था सुव्यवस्थिती कृता अस्ति। पङ्क्तौ स्थितानां श्रद्धालूनां शीघ्रदर्शनाय अतिरिक्तकर्मचारिणः नियुक्ताः सन्ति। मन्दिरस्य प्रवेशमार्गः निर्गमनमार्गश्च स्पष्टतया निर्दिष्टौ स्तः, येन गमनागमनं सुचारु भवेत्।

शनिवासरे श्रीकाशीविश्वनाथमन्दिरन्यासेन एषा सूचना प्रदत्ता। उक्तं यत् देशस्य विभिन्नप्रदेशेभ्यः बहवः श्रद्धालवः भगवान् श्रीविश्वेश्वरस्य दर्शनार्थं निरन्तरं आगच्छन्ति। वर्धमानां भीडां दृष्ट्वा मन्दिरप्रशासनेन श्रद्धालूनां सुविधा सुगमदर्शनं च सुनिश्चितुं विस्तृततया व्यवस्थाः कृताः सन्ति। मन्दिरस्य मुख्यकार्यपालकाधिकारी डॉ विश्वभूषणस्य अनुसारं श्रद्धालवः दीर्घकालं पङ्क्तौ न तिष्ठेयुः इति हेतोः पङ्क्तिप्रबन्धनस्य समये समये समीक्षा क्रियते।

सुरक्षाव्यवस्था सुदृढी कृता अस्ति तथा पेयजलस्य स्वच्छतायाश्च आवश्यकाः प्रबन्धाः अपि कृताः सन्ति। मन्दिरप्रशासनस्य मुख्योद्देश्यः अस्ति यत् सर्वे श्रद्धालवः सहजतया शीघ्रतया च बाबस्य दर्शनं कुर्वन्तु तथा तेषां श्रद्धा विश्वासश्च पूर्णसम्मानं प्राप्नुयात्। प्रशासनं सर्वेभ्यः श्रद्धालुभ्यः सहयोगस्य अपेक्षां करोति, येन व्यवस्था सुचारुरूपेण संचालितुं शक्येत।

हिन्दुस्थान समाचार