Enter your Email Address to subscribe to our newsletters

किशनगंजः, 12 अप्रैलमासः (हि.स.)। जिले एलपीजी-गैस इत्यस्य उपलब्धतां प्रति प्रसृतासु आशङ्कासु मध्ये जिलाप्रशासनेन स्थितिः पूर्णतया सामान्येति उक्तम्। रविवासरे जिलाधिकारी विशाल राज अवदत् यत् जिल्ले एलपीजी-गैस इत्यस्य पर्याप्ता उपलब्धता अस्ति तथा आपूर्तिवितरणव्यवस्था सुचारुरूपेण सञ्चाल्यते।
तेन उक्तं यत् वर्तमानकाले जिल्ले ७,९९३ अधिकानि एलपीजी-गैस-सिलिण्ड्राणां भण्डारम् उपलब्धम् अस्ति। गैस-एजेंसीभिः गृहेषु वितरणव्यवस्था अपि सामान्यरूपेण आरब्धा अस्ति। अनेन उपभोक्तृणां कृते एजेंसी-गमनस्य आवश्यकता न भविष्यति, ते च गृहे एव आरक्षणं कृत्वा द्वित्रदिनेषु अन्तरे सिलिण्ड्रं प्राप्तुं शक्नुवन्ति।
जिलाधिकारी विशाल राज अवदत् यत् नगरीय-क्षेत्रस्य उपभोक्तृभ्यः २५ दिनानन्तरं तथा ग्राम्य-क्षेत्रस्य उपभोक्तृभ्यः ४५ दिनानन्तरं पुनः आरक्षणस्य समयसीमा निर्धारिता अस्ति। सहैव कालाबाजार-निवारणार्थं तथा संचयनदोष-निग्रहाय धावादलेन नियमितं निरीक्षणं क्रियते। कस्यचित् अपि शिकायतप्राप्तौ कठोरकार्यवाही करिष्यते।
सामान्यजनानां समस्यासु शीघ्रसमाधानार्थं जिलाप्रशासनेन नियन्त्रणकक्षः अपि स्थापितः अस्ति, यः प्रतिदिनं प्रातः ७ वादनात् रात्रौ ९ वादनपर्यन्तं द्विपाल्यां सञ्चाल्यते। नियन्त्रणकक्षस्य दूरभाषसंख्या ०६४५६-२२५१५२ इति प्रकाशितम्।
जिलाप्रशासनस्य अनुसारं अद्य एलपीजी-गैससम्बद्धा एका शिकायतः प्राप्ता अस्ति, यस्य उपरि कार्यवाही क्रियते। प्रशासनस्य जनान् प्रति अपील अस्ति यत् गैस-उपलब्धतां प्रति चिन्ता न कुर्वन्तु तथा कस्यापि प्रकारस्य अपवादान् प्रति ध्यानं न ददतु।
हिन्दुस्थान समाचार