Enter your Email Address to subscribe to our newsletters

नवदिल्ली, १२ अप्रैलमासः (हि.स.)। दिल्ली-विधानसभा-अध्यक्षः विजेन्द्र-गुप्तः, मुख्यमन्त्री रेखा-गुप्ता तथा मन्त्रिणः विख्यातायाः पार्श्व-गायिकायाः आशा-भोसले-इत्यस्याः निधनं भारतीय-सङ्गीत-जगतः कृते अपूरणीय-हानिः इति उक्तवन्तः। आशा-भोसले अद्य मुंबई-नगरे ब्रीच-कैंडी-चिकित्सालये द्विनवतिवर्षे निधनं प्राप्तवती।
दिल्ली-विधानसभा-अध्यक्षः विजेन्द्र-गुप्तः शोक-सन्देशे उक्तवान् यत् आशा-भोसले स्वस्य गौरवशालि-सङ्गीत-जीवने द्वादश-सहस्राधिकानि गीतानि मधुर-स्वरेण अलङ्कृतवती। तस्याः गीतानि न केवलं भारतीय-सङ्गीतस्य अमूल्य-धरोहराः सन्ति, अपि तु अग्रिमवंशानां कृते प्रेरणास्रोतांसि अपि भविष्यन्ति। तस्याः सुमधुरा बहुविधा च वाणी दशकैः यावत् सङ्गीत-प्रेमिणां हृदयेषु राज्यं कृतवती तथा च देशस्य सांस्कृतिक-परिचयं समृद्धवती।
मुख्यमन्त्री रेखा-गुप्ता सामाजिक-माध्यमे ‘एक्स’ इत्यत्र लिखित्वा उक्तवती यत् सङ्गीतस्य सः स्वर्णिमः स्वरः अद्य मौनं गतः, येन वंशाः संयोजिताः तथा च सर्वाः भावनाः स्वरेषु परिवर्तिताः। आशायाः वाण्याम् इव जीवनं स्मितं ददाति स्म, प्रत्येकस्मिन् गीते एव कथा आसीत्, या कालात् अपि अग्रे गच्छति स्म। सा उक्तवती यत् तस्याः गमनं स्वर्णिम-युगस्य विरामवत् अस्ति, किन्तु तस्याः साधना अग्रिम-वंशानां सदा प्रेरणां दास्यति।
दिल्ली-राज्यस्य शिक्षामन्त्री आशीष-सूदः उक्तवान् यत् आशा-भोसले-इत्यस्याः मधुरा वाणी अद्वितीया च गायन-शैली दशकैः यावत् कोटिशः जनानां हृदयेषु राज्यं कृतवती तथा च भारतीय-सङ्गीतं वैश्विक-परिचयं प्रापणम् अकरोत्। तस्याः योगदानं सदा अमरं भविष्यति, सा च स्वकला-मार्गेण नित्यं अस्माकं मध्ये जीविष्यति।
दिल्ली-राज्यस्य लोक-निर्माण-विभागस्य मन्त्री प्रवेश-साहिब-सिंहः उक्तवान् यत् भारतीय-सङ्गीत-जगतः महान् विभूति:, मधुर-स्वरा अनुपमा च गायिका आशा-भोसले इत्यस्याः योगदानं सदा अविस्मरणीयं भविष्यति। तस्याः निधनं एकस्य युगस्य अन्तः अस्ति।
दिल्ली-राज्यस्य समाज-कल्याण-मन्त्री रविन्द्र-इन्द्राज-सिंहः उक्तवान् यत् अद्य स्वरस्य एका अमरा धरोहरा अस्मभ्यं विहाय गता। तस्याः मधुरा वाणी केवलं सङ्गीतं नासीत्, अपि तु कोटिशः जनानां भावनानां अभिव्यक्तिः आसीत्। वंशाः परिवर्तिताः, किन्तु तस्याः स्वरः सर्वदा जीवितः आसीत्।
दिल्ली-राज्यस्य पर्यावरण-मन्त्री मनजिन्दर-सिंह-सिरसा सामाजिक-माध्यमे ‘एक्स्’ इत्यत्र लिखित्वा उक्तवान् यत् भावुक-धुनिभ्यः आरभ्य उत्साहपूर्ण-क्लासिक-गीतेषु यावत् सा स्वस्य गायनेन प्रत्येकं गीतं सजीवं कृतवती। भारतीय-सङ्गीते तस्याः योगदानं सदा अस्माकं हृदयेषु स्थितं भविष्यति।
हिन्दुस्थान समाचार / अंशु गुप्ता