Enter your Email Address to subscribe to our newsletters

मुम्बई, 11 अप्रैलमासः (हि.स.)।स्वराणां स्वामिनी तथा च दिग्गजा पार्श्वगायिका आशाभोसले महोदया हृदयाघातानन्तरं मुम्बई-नगरस्य ब्रीच कैण्डी इति चिकित्सालये प्रवेशिता अस्ति। ९२ वर्षीया एषा गायिका ११ अप्रैलदिनाङ्के सहसा स्वास्थ्यस्य बिग्रहे सति शीघ्रमेव चिकित्सालयं प्रति नीता, यत्र सा आपातकालीन चिकित्सा कक्षे प्रवेशिता अस्ति। चिकित्सकानां विशेषज्ञदलम् निरन्तरं तस्याः निरीक्षणं करोति, उपचारश्च प्रचलति।
चिकित्सालयस्य सूत्रानुसारम्, आशाभोसले महोदया अत्यधिकश्रान्तेः वक्षस्थलस्य सङ्क्रमणस्य च तक्रारानन्तरं प्रवेशिता। तस्याः पौत्री जनाईभोसले महोदया वक्तव्यम् अस्ति यत् सम्प्रति तस्याः उपचारः प्रचलति, परिवारः च सकारात्मकसुधारस्य आशां करोति। सा प्रशंसकेभ्यः प्रसारमाध्यमेभ्यश्च गोपनीयतां स्थापयितुम् अभ्यर्थनामपि कृतवती।
भारतीयसङ्गीतजगतः अत्यन्तं प्रतिष्ठापितेषु स्वरेषु अन्यतमा आशाभोसले महोदया सप्तदशकेभ्यः अपि अधिकदीर्घे कार्यकाले असङ्ख्यानि लोकप्रियाणि गीतानि गीतवती अस्ति। सा 'दादा साहब फाल्के' पुरस्कारेण तथा च 'पद्मविभूषण' सदृशैः उच्चसम्मानैः अलङ्कृता अस्ति। तस्याः स्वास्थ्यस्य बिग्रहात्परं सम्पूर्णदेशे तस्याः प्रशंसकानां सङ्गीतप्रेमिणां च मध्ये चिन्तायाः तरङ्गः अस्ति, सर्वे च तस्याः शीघ्रस्वास्थ्यलाभाय कामनां कुर्वन्ति।
हिन्दुस्थान समाचार