ओडिशायाः मुख्यमंत्री मोहन माझी ‘रामाभिषेक नीतेः’ अवसरे अददात् शुभकामनाः
भुवनेश्वरम्, 12 अप्रैलमासः (हि.स.)। ओडिशा-प्रदेशस्य मुख्यमन्त्री मोहनमाझी महोदयः श्रीमन्दिरे आयोजितस्य पवित्रस्य ‘रामाभिषेकनीति’ उत्सवस्य अवसरः प्रदेशवासिनः प्रति हार्दिकाः शुभाशयाः प्रदत्तवन्तः। मुख्यमन्त्री उक्तवान् यत् भगवान् श्रीजगन्नाथस्य संस
ओडिशायाः मुख्यमंत्री मोहन माझी ‘रामाभिषेक नीतेः’ अवसरे अददात् शुभकामनाः


भुवनेश्वरम्, 12 अप्रैलमासः (हि.स.)। ओडिशा-प्रदेशस्य मुख्यमन्त्री मोहनमाझी महोदयः श्रीमन्दिरे आयोजितस्य पवित्रस्य ‘रामाभिषेकनीति’ उत्सवस्य अवसरः प्रदेशवासिनः प्रति हार्दिकाः शुभाशयाः प्रदत्तवन्तः।

मुख्यमन्त्री उक्तवान् यत् भगवान् श्रीजगन्नाथस्य संस्कृति: समन्वयस्य एकतायाश्च प्रतीकः अस्ति।

श्रीरामनवमीतः आरभ्यमाणा एषा पावनी परम्परा तथा तया सह सम्बद्धाः लोककलाः राज्यस्य समृद्धां सांस्कृतिकनिक्षेपम् अधिकं सुदृढां कुर्वन्ति।

तेन कामना कृता यत् महाप्रभोः श्रीजगन्नाथस्य असीमया कृपया सर्वेषां जीवने सुखं समृद्धिः च मङ्गलं च वसतु।

---------------

हिन्दुस्थान समाचार