खरगे प्रधानमन्त्रिणे पत्रं लिखित्वा नारी-शक्ति-वन्दन-अधिनियमं प्रति प्रश्नान् उत्थापितवान्
नवदिल्ली, १२ अप्रैलमासः (हि.स.)। कांग्रेस-अध्यक्षः मल्लिकार्जुन-खरगे प्रधानमन्त्रिणं नरेन्द्रमोदिनं प्रति पत्रं लिखित्वा नारी-शक्ति-वन्दन-अधिनियमेन सम्बद्धेषु विषयेषु स्वस्य आपत्तयः तथा आग्रहान् प्रस्तुतवान्। तेन संसदः विशेष-सत्र-आह्वान-निर्णयं प्र
मल्लिकार्जुन खरगे


नवदिल्ली, १२ अप्रैलमासः (हि.स.)। कांग्रेस-अध्यक्षः मल्लिकार्जुन-खरगे प्रधानमन्त्रिणं नरेन्द्रमोदिनं प्रति पत्रं लिखित्वा नारी-शक्ति-वन्दन-अधिनियमेन सम्बद्धेषु विषयेषु स्वस्य आपत्तयः तथा आग्रहान् प्रस्तुतवान्। तेन संसदः विशेष-सत्र-आह्वान-निर्णयं प्रति अपि प्रश्नाः उत्थापिताः।

खरगेन शनिवासर-रात्रौ लिखिते पत्रे उक्तं यत् नारी-शक्ति-वन्दन-अधिनियमः, २०२३ तमस्य वर्षस्य सितम्बर-मासे संसदया सर्वसम्मत्या पारितः आसीत्, तदा च तत्क्षणं प्रवर्तनस्य आग्रहः कृतः आसीत्। व्यापक-सम्मतेः अपि सरकारेण अस्य प्रवर्तनं न कृतम्। अधुना प्रायः त्रिंशत्-मासानन्तरं पर्याप्त-सूचनां विना विशेष-सत्रम् आहूयते, येन सार्थका चर्चा सम्भवा न भविष्यति।

कांग्रेस-अध्यक्षेन उक्तं यत् सर्वकारेण परिसीमनम् तथा अन्येषु महत्त्वपूर्णेषु विषयेषु विपक्षः विश्वासे न गृहीतः। तेन विचार: दत्तः यत् २९ अप्रैलमासस्य अनन्तरं, यदा वर्तमान-निर्वाचन-प्रक्रिया समाप्ता भविष्यति, तदा सर्वदलीय-सभा आहूयताम्, येन सर्वैः दलैः सह व्यापक-चर्चा कर्तुं शक्येत। स्पष्ट-विवरणस्य अभावे कस्यापि संवैधानिक-संशोधनस्य चर्चा अपूर्णा एव भविष्यति।

खरगेन एतदपि आरोपितं यत् राज्येषु निर्वाचन-कालस्य मध्ये विशेष-सत्रस्य आह्वानं राजनैतिक-लाभ-प्राप्तये प्रयासः इव दृश्यते। तेन सरकारस्य पूर्व-निर्णयानां यथा नोटबन्दी, जीएसटी, जनगणना तथा संघीय-नमूना-सम्बद्ध-विषयाणाम् उल्लेखः कृतः, उक्तं च यत् एतेषु विषयेषु सरकारस्य अभिलेखः विश्वासं न जनयति। लोकतन्त्रे सर्वेषां राज्येषां दलानां च सम्यक् रूपेण श्रवणं आवश्यकम्।

हिन्दुस्थान समाचार / अंशु गुप्ता