Enter your Email Address to subscribe to our newsletters

हुगली, 12 अप्रैलमासः (हि.स.)। विधानसभा निर्वाचनात् पूर्वमेव खानाकुल-राजनीतौ एकः महत्त्वपूर्णः परिवर्तनः दृष्टिगोचरः अभवत्। तृणमूल-काङ्ग्रेसस्य पूर्वः छात्र-नेता अलोक धावा इति नामकः नेता दलं परित्यज्य भारतीय-जनता-पार्टीं (भाजपा) आश्रितवान्। शनिवासरे रात्रौ खानाकुल-स्थिते भाजपा-कार्यालये आयोजिते कार्यक्रमे भाजपा-उम्मीदवारः सुषान्त घोषः तस्मै दल-ध्वजं प्रदाय औपचारिकतया तं दलस्य सदस्यत्वेन स्वीकृतवान्।
सूचनानुसारं, दीर्घकालं यावत् तृणमूलस्य छात्र-राजनीतौ संलग्नः सन् अलोक धावा दल-नेतृत्वे प्रति असन्तोषात् एतत् निर्णयं कृतवान्। भाजपा-दले सम्मिलितः सन् सः उक्तवान् यत् क्षेत्रस्य विकासाय नूतन-राजनीतिक-दिशा-प्रदर्शनाय च एषः तस्य निर्णयः अस्ति।
अन्यतः, भाजपा-उम्मीदवारः सुषान्त घोषः तस्य आगमनं स्वागतं कृत्वा उक्तवान् यद् “अलोक धावा इव युवा-नेतुः दल-प्रवेशः अस्माकं संगठनं अधिकं सुदृढं करिष्यति।” सः अपि अभ्यधात् यत् निर्वाचनात् पूर्वं एतादृशाः दल-प्रवेश-घटनाः एतत् सूचयन्ति यत् सामान्य-जनाः कार्यकर्तारः च परिवर्तनस्य पक्षे सन्ति।
---------------
हिन्दुस्थान समाचार