आशा-भोसले-इत्यस्याः श्वासानां वीणा शान्ता, सप्तस्वराः शोकसागरे निमग्नाः
नवदिल्ली, १२ अप्रैलमासः (हि.स.)। सुप्रसिद्धा पार्श्व-गायिका पद्म-विभूषण-समलङ्कृता आशा-भोसले अद्य मुंबई-नगरे निधनं प्राप्तवती। सा प्रायः अष्ट-दशकपर्यन्तं स्वस्य मधुर-स्वरेण सङ्गीत-जगति अधिराज्यं कृतवती। आशा-भोसले ८ सितम्बरमासे १९३३ तमे दिने सांगली-
Asha Bhosle


नवदिल्ली, १२ अप्रैलमासः (हि.स.)। सुप्रसिद्धा पार्श्व-गायिका पद्म-विभूषण-समलङ्कृता आशा-भोसले अद्य मुंबई-नगरे निधनं प्राप्तवती। सा प्रायः अष्ट-दशकपर्यन्तं स्वस्य मधुर-स्वरेण सङ्गीत-जगति अधिराज्यं कृतवती।

आशा-भोसले ८ सितम्बरमासे १९३३ तमे दिने सांगली-प्रदेशे गोआर-ग्रामे जाता, यः तदा सांगली-राज्यस्य (अधुना महाराष्ट्र-राज्ये) अंशः आसीत्। तस्याः पिता दीनानाथ-मङ्गेशकरः प्रसिद्धः शास्त्रीय-गायकः मराठी-रङ्गमञ्चे च अभिनेता आसीत्, माता शेवन्ती नाम्ना अभवत्।

नव-वर्ष-आयुषि एव तस्याः पितुः निधनं जातम्, अनन्तरं परिवारः पुणे-नगरात् कोल्हापुरं ततः च मुंबई-नगरं गतः। परिवार-पालनाय तया तथा तस्याः ज्येष्ठया भगिन्या लता-मङ्गेशकरया चित्रपटेषु गायनम् अभिनयः च आरब्धः। तस्याः प्रथमं गीतं मराठी-चलच्चित्रे ‘माझा बाई’ (१९४३) इत्यस्मिन् “चला चला नव बाला” आसीत्। १९४८ तमे वर्षे ‘चुनरिया’ इत्यस्य हिन्दी-चलच्चित्रस्य कृते “सावन आया” इति गीतं गातवती। १९४९ तमे वर्षे ‘रात की रानी’ इत्यस्मिन् तस्याः प्रथमं एकल-गीतं प्रकाशितम्। षोडश-वर्ष-आयुषि सा स्वपरिवारस्य इच्छां विना गणपतराव-भोसले इत्यनेन सह विवाहं कृतवती।

तस्याः वैवाहिक-जीवनं सफलं नाभवत्। पत्युः गृहतः निष्कासिता सा तृतीय-शिशोः गर्भावस्थायाम् अपि द्वाभ्यां शिशुभ्यां सह मातृगृहं प्रत्यागता। गीत-गायनेन जीविकां निर्वहन्ती सन्तान-पालनं च कृतवती।

हृदयाघातानन्तरं ब्रीच-कैंडी-चिकित्सालये उपचाराधिना सा रविवासरे देहं त्यक्तवती। श्वः सोमवासरे शिवाजी-पार्क-स्थिते श्मशाने पूर्ण-राजकीय-सम्मानेन सह तस्याः अन्त्येष्टिः करिष्यते।

आशा-भोसले सहस्राधिकानि गीतानि गीत्वा भारतीय-सङ्गीतं वैश्विक-कीर्तिं प्राप्तवती। तस्याः योगदानं सदैव स्मरणीयं भविष्यति।

हिन्दुस्थान समाचार / अंशु गुप्ता