Enter your Email Address to subscribe to our newsletters

नवदिल्ली, १२ अप्रैलमास: (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी चिकित्सालये प्रविष्टा प्रसिद्धा गायिका आशाभोसले-इत्यस्या: स्वास्थ्यावस्थाया: अवनतिं प्रति गम्भीरां चिन्तां व्यक्तवान्। तेन तस्याः शीघ्र-स्वास्थ्य-लाभाय कामना कृता।
प्रधानमन्त्री नरेन्द्रमोदी सामाजिक-माध्यम-मञ्चे ‘एक्स’ इत्यस्मिन् उक्तवान् यत् आशाभोसले चिकित्सालये प्रविष्ट-सम्बद्धां वार्तां श्रुत्वा सः चिन्तितः अस्ति। तेन लिखितं यत् सः तस्याः उत्तम-स्वास्थ्याय शीघ्र-स्वास्थ्य-लाभाय च प्रार्थनां करोति।
उल्लेखनीयं यत् ८ सितम्बर १९३३ तमे वर्षे महाराष्ट्र-राज्यस्य सांगली-नगरस्य जाता भारतीय-संगीत-जगतः प्रख्याता पार्श्व-गायिका आशाभोसले स्वस्य व्यवसायिक-जीवनस्य आरम्भं १९४०-दशके कृतवती। १९४३ तमे वर्षे मराठी-चलचित्राय प्रथमं गीतं गातवती। अनन्तरं १९४८ तमे वर्षे हिन्दी-चलचित्रे गायनेन तस्याः विशेषः परिचयः प्राप्तः। आशाभोसलेया अद्यावधि विभिन्न-भाषासु २०,००० अधिकानि गीतानि गायतानि, येषु हिन्दी, मराठी, बङ्गाली, गुजराती, पञ्जाबी, तमिळ, मलयालम्, आङ्ग्लभाषा, रूसी-भाषा च समाविष्टाः सन्ति। तस्या: दादासाहेब-फाल्के-पुरस्कारः, पद्म-विभूषणम्, पद्म-भूषणम् इत्यादयः बहवः राष्ट्रिय-सम्मानानि प्रदत्तानि सन्ति। अस्य अतिरिक्तं सा अनेकवारं राष्ट्रिय-चलचित्र-पुरस्कारान् तथा फिल्मफेयर-पुरस्कारान् अपि जितवती।
हिन्दुस्थान समाचार / अंशु गुप्ता