Enter your Email Address to subscribe to our newsletters

हल्द्वानी , 12 अप्रैलमासः (हि.स.)।मुख्यमंत्री पुष्कर सिंह धामी रविवासरे हल्द्वानी नगरे नशामुक्त-उत्तराखण्ड-अभियानस्य अन्तर्गतं आयोजितस्य ‘रन फॉर अवेयरनेस’ नामक-धावन-कार्यक्रमस्य शुभारम्भं कृतवान्। अस्मिन् अवसरे सहस्रशः युवा, छात्र-छात्र्यः, जनप्रतिनिधयः गणमान्य-नागरिकाश्च उपस्थिताः आसन्।
एमबी-इण्टर-कॉलेज-क्रीडांगणे धावन-यात्रायाः हरित-ध्वज-प्रदर्शनपूर्वं मुख्यमंत्री धामी उक्तवान् यत् अद्यतनः एषः धावन-कार्यक्रमः केवलं शारीरिक-व्यायामः नास्ति, अपितु स्वस्थ-समृद्ध-नशामुक्त-उत्तराखण्डस्य संकल्प-धावनम् अस्ति। यदा भवन्तः अत्रतः अग्रे पदानि स्थापयिष्यन्ति, तदा एषः सन्देशः सम्पूर्णे प्रदेशे प्रसरितव्यः यत् उत्तराखण्डस्य युवा अधुना नशाय ‘ना’ इति वदति, जीवनाय च ‘हाँ’ इति स्वीकरोति।
मुख्यमंत्री उक्तवान् यत् नशा ‘मौन-युद्धम्’ इव प्रसृतम् अस्ति, यस्य प्रमुखं लक्ष्यं अस्माकं युवा-शक्तिः अस्ति। विनोदेन एव युवानः नशायाः प्रभावे पतन्ति, ततः निवृत्तिः अतीव कठिनाऽस्ति। एतत् केवलं व्यक्तिम् एव न, अपितु समग्र-कुटुम्बस्य सुखानि संकटे स्थापयति।
मुख्यमंत्री उक्तवान् यत् नरेंद्र मोदी द्वारा २०२० वर्षे प्रारब्धात् ‘नशामुक्त-भारत-अभियानात्’ प्रेरणां गृह्य राज्य-सरकारः अस्मिन् क्षेत्रे मिशन-रूपेण कार्यं करोति। वर्षे २०२२ स्थापितया एण्टि-नार्कोटिक्स-टास्क-फोर्स-दलेन सहस्रशः आरोपिणां ग्रहणं कृतम् तथा बहु-मात्रायां मादक-द्रव्याणां जप्तिः कृता। सह एव एडिक्शन-ट्रीटमेंट-फैसिलिटी (एटीएफ) केन्द्राणां सञ्चालनं क्रियते, सर्वेषु सरकारी-चिकित्सा-महाविद्यालयेषु अपि एटीएफ-केन्द्राणि स्थाप्यन्ते।
तेन उक्तं यत् यूनां शक्तेः सकारात्मक-दिशा-प्रदानार्थं ‘दगड़िया-क्लब’ इति समूहाः स्थापिताः सन्ति, ये युवानः नशात् दूरं स्थितुं प्रेरयन्ति। मुख्यमंत्री युवानः प्रति आह्वानं कृतवान् यत् नशा-विरुद्धा एषा लढाई केवलं विधि-निर्माणेन न जयिता शक्या। अस्याः सफलतायै सामाजिक-जागरूकता तथा युवानां सहभागिता अतीव आवश्यकम्। वयं सर्वे संकल्पं कुर्मः यत् वयं स्वयम् नशात् दूरं स्थित्वा स्वमित्रान् समाजं च जागरूकयेम।
सः अवदत् यत् उत्तराखण्डः स्वस्य आध्यात्मिक-परम्परया सांस्कृतिक-मूल्यैः ऊर्जस्विनी-युवा-शक्त्या च प्रसिद्धः अस्ति। यदि एषा युवा-शक्तिः सम्यक् दिशि प्रवर्तते, तर्हि सा सम्पूर्णस्य भारतस्य विकासे महत्त्वपूर्णां भूमिकां निर्वहति। अस्मिन् अवसरे मुख्यमंत्रीनाऽपि नशामुक्तेः शपथः दिलिता।
अस्मिन् कार्यक्रमे डॉ स्वामी रामेश्वरम् हरिः, डॉ हरीश रौतेलः, श्याम अग्रवालः, राम सिंह कैड़ा, गजराज सिंह बिष्टः, प्रताप बिष्टः, भारत भूषणः, डॉ अशोक पालः, सुरेन्द्र सिंह नामधारी, शंकर कोरंगः, शान्ति महरा, डॉ अनिल कपूर डब्बू, रेनू अधिकारी, ध्रुव रौतेलः, सुरेश भट्टः, योगेन्द्र सिंह रौतेलः, आयुक्तः कुमाऊँ, सचिवः मुख्यमंत्री दीपक रावतः, जिलाधिकारी ललित मोहन रयालः, एसएसपी डॉ मञ्जूनाथ टी सी इत्यादयः अपि उपस्थिताः आसन्।
हिन्दुस्थान समाचार