Enter your Email Address to subscribe to our newsletters

देहरादूनम्, 12 अप्रैलमासः (हि.स.)।
राज्यसरकारेण उत्तराखण्डस्य चतुर्षु धामसु यात्रिकाणां संख्याया सीमांकनं न कर्तव्यमिति निर्णये कृते, चतुर्धामसम्बद्धाः तीर्थपुरोहिताः, पुजारिणः, हितधारकाः, चतुर्धाम-होटेल-संघाः, यात्राव्यवसायसंस्थाः तथा विविधाः संगठनाः मुख्यमन्त्रिणं प्रति कृतज्ञतां व्यक्तवन्तः। एते सर्वे मुख्यमन्त्रिणं धामानां कपाटोद्धाटनसमये आमन्त्रितवन्तः।
रविवासरे चतुर्धामसम्बद्धाः तीर्थपुरोहिताः, पुजारिणः, हितधारकाः, चतुर्धाम-होटेल-संघाः, यात्रासंस्थाः तथा विविधसंगठनानां पदाधिकारीणः सरकारीनिवासे उपस्थित्य मुख्यमन्त्रिणा पुष्कर सिंह धामी महोदयेन सह मिलित्वा, यात्रिकाणां संख्याया असीमांकननिर्णयस्य कृते आभारं प्रकटितवन्तः।
अस्मिन् अवसरि मुख्यमन्त्री धामी महोदयः अवदत् यत् राज्यसरकारः श्रद्धालूनां आस्थां सम्मानयित्वा चतुर्धामयात्रां अधिकसुगमां सुलभां च कर्तुं प्रतिबद्धा अस्ति। राज्ये दर्शनार्थं आगच्छन्तां सर्वेषां श्रद्धालूनां सुविधा, सुरक्षा तथा उत्तमव्यवस्था सरकारस्य सर्वोच्चा प्राथमिकता अस्ति। तेन उक्तं यत् सर्वे सम्बन्धितविभागाः समन्वयेन कार्यं कुर्वन्तु इति निर्देशाः दत्ताः, येन यात्राकाले कापि असुविधा न भवेत्।
मुख्यमन्त्री अवदत् यत् राज्यसर्वकारः धार्मिकपर्यटनस्य संवर्धनं कुर्वन् स्थानीयार्थव्यवस्थां सुदृढीकर्तुं निरन्तरं प्रयत्नशीलः अस्ति। तेन उक्तं यत् चतुर्धामयात्राकाले श्रद्धालूनां काचिदपि असुविधा न भवेत् इति दृष्ट्या अधिकाऱिभ्यः सर्वाः मूलभूतसुविधाः प्रदातुं निर्देशाः दत्ताः। तेन देवभूमेः उत्तराखण्डस्य चतुर्धामयात्रायाः सफलसंचालनाय सर्वान् सहभागीभूतान् भवितुं आह्वानं कृतम्।
मुख्यमन्त्रिणा सह मिलित्वा चतुर्धामयात्रासम्बद्धसंघटनानि उक्तवन्ति यत् सरकारस्य अयं निर्णयः प्रदेशस्य आस्था, अर्थव्यवस्था तथा पर्यटनक्रियाकलापानां सुदृढीकरणाय महत्त्वपूर्णः पदः अस्ति। अनेन स्थानीयव्यापारिणः, होटेलव्यवसायिनः, परिवहनक्षेत्रं तथा अन्याः सम्बन्धितसेवाः अपि व्यापकं लाभं प्राप्स्यन्ति।
अस्मिन् अवसरि ते चतुर्धामयात्रायाः आगच्छन्तां यात्रिकाणां तथा शीतकालीनयात्रायाः कृते अपि ऑनलाइन-पञ्जीकरणं सदा उद्घाटितं भवेत् इति आग्रहं कृतवन्तः। सर्वे प्रतिनिधयः विश्वासं व्यक्तवन्तः यत् राज्यसरकारः यात्राव्यवस्थाः सुचारूः, सुरक्षिताः सुव्यवस्थिताश्च कर्तुं निरन्तरं आवश्यकपदानि गृह्णीयात्। ते प्रशासनस्य व्यवस्थाः, सुविधाविस्तारं तथा यात्रिकाणां सुरक्षा सुनिश्चितीकरणस्य प्रयासान् अपि प्रशंसितवन्तः।
अस्मिन् समये उत्तराखण्ड-चतुर्धाम-तीर्थपुरोहित-महापञ्चायतस्य अध्यक्षः पण्डितः सुरेश सेमवाल, महासचिवः बृजेश सती, ब्रह्मपाल-तीर्थपुरोहित-पञ्चायत-समितेः अध्यक्षः उमेश सती, यमुनोत्रीधाम-मन्दिर-समितेः सचिवः सुनील उनियाल, उपाध्यक्षः संजीव उनियाल, पुरुषोत्तम उनियाल, चतुर्धाम-होटेल-संघस्य अध्यक्षः राजेश मेहता, सचिवः निखिलेश सेमवाल, यमुना-घाटी-होटेल-संघस्य अध्यक्षः सोबन सिंह राणा, गौरव उनियाल, सन्दीप राणा, उत्तरकाशी-होटेल-संघस्य अध्यक्षः शैलेन्द्र मटूड़ा, केदार-घाटी-होटेल-संघस्य अध्यक्षः धर्मेन्द्र नौटियाल इत्यादयः उपस्थिताः आसन्।
हिन्दुस्थान समाचार