Enter your Email Address to subscribe to our newsletters

सिलीगुडी-नगरम्, १२ अप्रैलमासः (हि.स.)। पश्चिम-बङ्गाल-विधानसभा-निर्वाचनात् पूर्वं राज्ये राजनैतिक-उष्णताः अत्यन्तं तीव्राः जाताः। अस्मिन् सन्दर्भे प्रधानमन्त्री नरेन्द्र-मोदी उत्तर-बङ्गालस्य प्रमुख-नगरे सिलीगुडी-नगरे आयोजितायां जनसभायां तृणमूल-काङ्ग्रेस-दलम् प्रति तीक्ष्णम् आक्रमणं कृत्वा परिवर्तनस्य आह्वानम् अकरोत्।
रविवासरे कावाखाली-प्राङ्गणे आयोजितायां अस्यां सभायां विशालः जनसमूहः समागतः। प्रधानमन्त्री जनसमूहस्य उत्साहं प्रशंसन् उक्तवान् यत् एतादृशः सम्मर्दः विरलेषु स्थलेषु एव दृश्यते। एतत् जनसमर्थनं स्पष्टं सूचयति यत् पश्चिम-बङ्गाले सत्तापरिवर्तनं निश्चितम्।
प्रधानमन्त्री अवदत् यत् तृणमूल-काङ्ग्रेस-दलस्य शासनं समाप्तेः समीपे अस्ति तथा च गत-पञ्चदश-वर्षेषु राज्ये भ्रष्टाचारः स्थैर्याभावः चैव दृष्टः। यूनः प्रति सः आह्वानम् अकरोत् यत् ते परिवर्तनार्थं अग्रे आगच्छेयुः।
मुख्यमन्त्री ममता-बॅनर्जी-इत्यस्याः सर्वकारं प्रति आलोचनां कुर्वन् सः अवदत् यत् तृणमूलेन विकासस्य स्थाने “सिण्डिकेट्-कटमनी-संस्कृतिः” प्रवर्धिता। राज्ये भ्रष्टाचारः गभीरतया व्याप्तः अस्ति इति तेन आरोपः कृतः।
प्रधानमन्त्री उत्तर-बङ्गालं भाजप-दलस्य दृढ-आधार-क्षेत्रम् इति निर्दिश्य तत्र विकास-रोजगारयोः संवर्धनाय प्रतिज्ञाः अपि अकरोत्। सः अवदत् यत् भाजप-सर्वकारस्य स्थापने सुरक्षा-आधारभूत-संरचना-आर्थिक-विकासेषु विशेषः ध्यानं दास्यते।
सः तृणमूल-दलम् “टुकड़े-टुकड़े-समूहस्य” समर्थनम् आरोपयन् उक्तवान् यत् एते तत्वाः सिलीगुडी-परिसरस्य हानिं कर्तुं तथा उत्तर-पूर्व-भारतं देशात् पृथक्कर्तुं षड्यन्त्रं कृतवन्तः।
प्रधानमन्त्री स्पष्टं उक्तवान् यत् सिलीगुडी-परिसरः राष्ट्रस्य सुरक्षा-समृद्ध्योः कृते अत्यन्तं महत्त्वपूर्णः अस्ति, तस्य संरक्षणं विकासश्च भाजप-दलस्य प्राधान्यम् अस्ति।आगामि-निर्वाचन-परिणामानां विषये विश्वासं व्यक्तयन् सः अवदत् यत् ४ मईमासानन्तरं नूतन-सर्वकारः भविष्यति तथा च राज्ये महत्परिवर्तनं दृश्यते। “अधुना भयः न, विश्वासः अपेक्षितः—एषः एव भाजप-दलस्य मन्त्रः” इति अपि सः उक्तवान्।
तीव्र-उष्णतायाम् अपि विशालः जनसमूहः उपस्थितः आसीत्, यत् भाजपा-दलस्य विजयस्य सूचकः इति मन्यते।
पूर्वं प्रधानमन्त्री शनिवासरेऽपि पूर्व-बर्धमान-मुर्शिदाबाद-दक्षिण-दिनाजपुर-जनपदेषु जनसभाः अकरोत्।
हिन्दुस्थान समाचार / अंशु गुप्ता