तुष्टीकरणं न, विकासः सुरक्षा च अपेक्षितौ, पश्चिम-बङ्गाले परिवर्तनं निश्चितम् : योगी आदित्यनाथः
पश्चिम-बङ्गालस्य बांकुड़ा-पूर्व-मेदिनीपुर-जनपदयोः जनसभासु उत्तरप्रदेशस्य मुख्यमन्त्री योगी-आदित्यनाथः सत्ता-परिवर्तनस्य आह्वानं कृतवान्। सः अवदत् यत् जनाः तुष्टीकरण-राजनीतिं निराकृत्य विकासं, सुरक्षां सुशासनं च इच्छन्ति तथा भाजपा-दलस्य समर्थनं कुर्
योगी आदित्यनाथ बंगाल के जनसभामें


योगी आदित्यनाथ बंगाल के जनसभा में


पश्चिम-बङ्गालस्य बांकुड़ा-पूर्व-मेदिनीपुर-जनपदयोः जनसभासु उत्तरप्रदेशस्य मुख्यमन्त्री योगी-आदित्यनाथः सत्ता-परिवर्तनस्य आह्वानं कृतवान्। सः अवदत् यत् जनाः तुष्टीकरण-राजनीतिं निराकृत्य विकासं, सुरक्षां सुशासनं च इच्छन्ति तथा भाजपा-दलस्य समर्थनं कुर्वन्ति। तेन तृणमूल-काङ्ग्रेस-वामदलानां शासनं प्रति अराजकता-भ्रष्टाचारयोः आरोपः कृतः। सः उक्तवान् यत् “द्वि-इंजन-सर्वकार:” एव समस्यासु समाधानं दास्यति, राज्ये च परिवर्तनं निश्चितम्।

सोनामुखी-प्रदेशे जनसमर्थनस्य उल्लेखं कुर्वन् सः उक्तवान् यत् तत्र जनानां उत्साहः अस्य संकेतः अस्ति यत् राज्ये “कमलम्” विकसिष्यति। सः अवदत् यत् जनाः तादृशं सर्वकारं इच्छन्ति य: आस्थां, सुरक्षां सर्वाङ्गीण-विकासं च प्राथमिकतया स्वीकरोति।

योगी-आदित्यनाथः अवदत् यत् भाषा-संस्कृति-नाम्ना कठोर-राजनीतिः न प्रचलिष्यते, देशद्रोहिणां शक्तिनां योजनाः कदापि सफलाः न भविष्यन्ति। सह एव सः कृषकाणां हितरक्षणस्य आश्वासनं दत्त्वा अवदत् यत् बङ्गालस्य जनाः अधुना मौनं न धारयिष्यन्ति।

अन्ते तेन आरोपितं यत् तृणमूल-काङ्ग्रेस-शासनकाले बङ्गालः तुष्टीकरण-भ्रष्टाचार-अराजकतायाः केन्द्रं जातम्, किन्तु अधुना जनाः परिवर्तनाय सज्जाः सन्ति, अग्रिमेषु निर्वाचनेषु तस्य परिणामः द्रष्टुं शक्यते।

हिन्दुस्थान समाचार / अंशु गुप्ता