Enter your Email Address to subscribe to our newsletters

मंडी, 12 अप्रैलमासः (हि.स.)।
सरदार पटेल विश्वविद्यालय मण्डी की पूर्व प्रो वाइस चान्सलर तथा डीन अकादमिक अफेयर्स प्रो. अनुपमा सिंह उक्तवती यत् सनातनपरम्परायां शिक्षायाः उद्देश्यं केवलं ज्ञानार्जनं न, अपि तु चरित्रनिर्माणं तथा आत्मबलस्य सुदृढीकरणम् अस्ति। योगस्य आत्मरक्षणस्य च समन्वयः अद्यतनयुवानां मानसिकशारीरिकसामाजिकदृष्ट्या सशक्तीकरणे महत्त्वपूर्णां भूमिकां निर्वहति। सा गुरुकुले सनातनशास्त्रविद्यायां योग तथा आत्मरक्षणप्रशिक्षणान्तर्गत विशेषपरीक्षणकार्यक्रमे मुख्यातिथिरूपेण सहभागी अभवत्।
अस्मिन् अवसरे युवा प्रतिभागिनः स्वकीय उत्कृष्टकौशलं अनुशासनं आन्तरिकशक्तिं च आत्मरक्षणकौशलप्रदर्शनं प्रभावपूर्णतया अकुर्वन्, यत् उपस्थितैः सर्वैः गणमान्यैः अतिथिभिः अभिभावकैः च प्रशंसितम्। अस्य प्रशिक्षणकार्यक्रमस्य प्रमुखप्रशिक्षकः अजय ठाकुरस्य मार्गदर्शने प्रतिभागिनः अनुशासनं समर्पणं आत्मविश्वासं च उत्कृष्टतया प्रदर्शितवन्तः। तस्य नेतृत्वे युवानां न केवलं आत्मरक्षणकौशलस्य प्रावीण्यं विकसितं क्रियते, अपि तु तेषु संस्कारः संयमः राष्ट्रप्रेमभावना च संवर्ध्यते।
कार्यक्रमस्य आयोजकैः उक्तं यत् एतादृशप्रशिक्षणस्य उद्देश्यं युवानां आत्मनिर्भरता सशक्तीकरणं च अस्ति, येन ते समाजे सकारात्मकयोगदानं कर्तुं समर्थाः भवन्ति। कार्यक्रमे सर्वे प्रतिभागिनः स्वकीय उत्कृष्टप्रदर्शनाय सम्मानिताः तथा तेषां उज्ज्वलभविष्यस्य शुभाशयाः अपि प्रदत्ताः।
---------------
हिन्दुस्थान समाचार