नास्ति जीविता सुरमल्लिका आशा भोसले, देशे शोकतरङ्गः व्याप्तः
मुंबईनगरम्, १२ अप्रैलमासः (हि.स.)। भारतीयसंगीत-जगतः प्रख्याता पार्श्वगायिका आशा भोसले द्विनवतिवर्षीयायां वयसि निधनं प्राप्तवती। सा ब्रीच-कैण्डी-चिकित्सालये अन्तिमं श्वासं त्यक्तवती। विश्वस्य सर्वत्र स्थिताः प्रशंसकाः तस्याः आरोग्याय प्रार्थनां कुर
आशा भोसले - फोटो सोर्स एक्स


मुंबईनगरम्, १२ अप्रैलमासः (हि.स.)। भारतीयसंगीत-जगतः प्रख्याता पार्श्वगायिका आशा भोसले द्विनवतिवर्षीयायां वयसि निधनं प्राप्तवती। सा ब्रीच-कैण्डी-चिकित्सालये अन्तिमं श्वासं त्यक्तवती।

विश्वस्य सर्वत्र स्थिताः प्रशंसकाः तस्याः आरोग्याय प्रार्थनां कुर्वन्तः आसन्, किन्तु अद्य एषा महती स्वरध्वनिः निःशब्दा जाता। अस्याः निधनस्य पुष्टि: तस्याः पुत्रेण आनन्द-भोसलेन कृता।

गायिकायाः अतिशय-श्रान्तिः तथा उरः-संक्रमणस्य (छाती-रोगस्य) कारणेन ब्रीच-कैण्डी-अस्पताले भर्ती कृतवती आसीत्। तस्याः पौत्री जनाई-भोसले पूर्वमेव सामाजिक-माध्यमेन तस्याः स्वास्थ्यविषये सूचना प्रदत्ता तथा जनान् गोपनीयतां पालनाय निवेदिता। यदा तस्याः चिकित्सालये प्रवेश-समाचारः प्रकाशितः, तदा बहवः प्रशंसकाः चिकित्सालयं तस्याः गृहं च बहुसंख्यया समागता: आसन्। सर्वे आशां कुर्वन्तः आसन् यत् सा शीघ्रं स्वस्थता प्राप्य पुनरागमिष्यति, किन्तु एषा आशा भग्ना जाता।

तस्याः निधनात् भारतीयसंगीत-जगति अपूरणीय-क्षतिः जाता। कुलस्य अनुसारं सोमवासरे तस्याः अन्त्येष्टिः भविष्यति।

हिन्दुस्थान समाचार / अंशु गुप्ता