नवीन पटनायकः स्प्रिंटर अनिमेष कुजूराय इंडियन ओपन एथलेटिक्सशृंखलायां स्वर्णद्वयाय वर्धापनानि
भुवनेश्वरम्, 12 अप्रैलमासः (हि.स.)। विपक्षनेता नवीनपटनायकः नवान्दिल्ली-नगरे आयोजितस्य “इण्डियन ओपन एथलेटिक्स सीरीज ३” इत्यस्यां स्पर्धायां उत्कृष्टं प्रदर्शनं कृतवन्तं प्रतिभाशालिनं धावकं अनिमेषकुजूरं अभिनन्दितवान्। कुजूरः १०० मीटर तथा २०० मीटर धा
नवीन पटनायक


भुवनेश्वरम्, 12 अप्रैलमासः (हि.स.)। विपक्षनेता नवीनपटनायकः नवान्दिल्ली-नगरे आयोजितस्य “इण्डियन ओपन एथलेटिक्स सीरीज ३” इत्यस्यां स्पर्धायां उत्कृष्टं प्रदर्शनं कृतवन्तं प्रतिभाशालिनं धावकं अनिमेषकुजूरं अभिनन्दितवान्।

कुजूरः १०० मीटर तथा २०० मीटर धावनयोः स्वर्णपदकं जित्वा स्वस्य उत्कृष्टां क्षमतां प्रदर्शितवान् तथा भारतीय-एथलेटिक्स-क्षेत्रे स्वस्य सुदृढां उपस्थितिं स्थापितवान्।

तस्य अस्याः उपलब्धेः प्रशंसां कुर्वन् पटनायकः तस्य समर्पणस्य कठिनपरिश्रमस्य च स्तुतिं कृतवान्।

तेन आशा व्यक्ता यत् अनिमेषकुजूरः स्वस्य क्रीडाजीवने निरन्तरम् उत्कृष्टं प्रदर्शनं करिष्यति तथा देशाय अधिकं गौरवं अर्जयिष्यति।

पटनायकः तस्य उज्ज्वलभविष्याय अपि स्वाशिषः प्रदत्तवान्।

---

हिन्दुस्थान समाचार