Enter your Email Address to subscribe to our newsletters

पटना-नगरम्, १३ अप्रैलमासः (हि.स.)। बिहार-राज्यस्य राजनीतौ अद्यतन-दिनेषु तीव्रता दृश्यते, अग्रिम-अष्टचत्वारिंशत्-होरा: निर्णायकाः मन्यन्ते। नूतन-सर्वकार-गठनं शपथ-ग्रहण-समारोहस्य च कृते प्रशासनिक-स्तरे शीघ्रं सज्जा क्रियते। अस्मिन् सन्दर्भे राज्यपालः पटना-जनपदस्य जनपदाधिकारीं डॉ.त्यागराजन-एसएम आहूतवान्, येन समारोहस्य अन्तिम-सज्जासूचनाः प्राप्यन्ते।
१४ अप्रैलमासे प्रस्ताविते मन्त्रिमण्डल-सभायां महत्त्वपूर्ण-निर्णयाः सम्भाव्यन्ते, या नूतन-सर्वकार-गठनस्य दिशि निर्णायकः चरणः मन्यते। मुख्यमन्त्री-निवासे अपि राजनैतिक-गतिविधयः तीव्राः सन्ति, यत्र जदयू-दलस्य वरिष्ठ-नेतारः उपस्थिता आसन्।
अपरतः भाजपा-दलम् अपि स्वकीयां रणनीतिं अन्तिम-रूपे स्थापयति, तथा विधायक-दल-नेतुः चयनाय केन्द्रीय-मन्त्री शिवराजसिंह-चौहानः पटना-नगरं आगमिष्यति।
एतेन सह एतत् अपि चर्चायाम् अस्ति यत् नूतन-मुख्यमन्त्रिणः शपथ-ग्रहण-समारोहे प्रधानमन्त्रिणः सहभागिता सम्भाव्यते, किन्तु अस्य आधिकारिक-पुष्टिः अद्यापि न प्राप्ता।
हिन्दुस्थान समाचार / अंशु गुप्ता