गुजरात-राज्यस्य सुरेन्द्रनगर-जनपदे मार्ग-दुर्घटना, सप्त-जनानां मृत्यु:, राष्ट्रपतिः, उपराष्ट्रपतिः, प्रधानमन्त्री च शोकं व्यक्तवन्तः
नवदिल्ली/गान्धीनगरम्, १३ अप्रैलमासः (हि.स.)। गुजरात-राज्यस्य सुरेन्द्रनगर-जनपदे लखतर–विरमगाम-राष्ट्रीय-राजमार्गे मार्ग-दुर्घटनायां सप्त-जनानां मृत्युः अभवत्, चत्वारः अन्ये गम्भीरतया आहताः। तीव्रगत्या आगच्छन् एकः ट्रकः नियन्त्रणं नीत्वा पन्थानुगच्छत
गुजरात-राज्यस्य सुरेन्द्रनगर-जनपदे मार्ग-दुर्घटना, सप्त-जनानां मृत्यु:, राष्ट्रपतिः, उपराष्ट्रपतिः, प्रधानमन्त्री च शोकं व्यक्तवन्तः


नवदिल्ली/गान्धीनगरम्, १३ अप्रैलमासः (हि.स.)। गुजरात-राज्यस्य सुरेन्द्रनगर-जनपदे लखतर–विरमगाम-राष्ट्रीय-राजमार्गे मार्ग-दुर्घटनायां सप्त-जनानां मृत्युः अभवत्, चत्वारः अन्ये गम्भीरतया आहताः। तीव्रगत्या आगच्छन् एकः ट्रकः नियन्त्रणं नीत्वा पन्थानुगच्छतः श्रद्धालून् अभिघातितवान्।

आरक्षकविभाग-अनुसारं रात्रौ श्रद्धालवः बहुचराजी-माता-मन्दिर-दर्शनार्थं पदयात्रां कुर्वन्तः आसन्, तदा एषा दुर्घटना अभवत्। मृतेषु षट् श्रद्धालवः तथा एकः डम्पर-चालकः सन्ति।

राष्ट्रपतिः द्रौपदी-मुर्मुः, उपराष्ट्रपतिः सी.पी.राधाकृष्णन् तथा प्रधानमन्त्री नरेन्द्रमोदी एतस्मिन् दुःखद-प्रसङ्गे गहनं शोकं व्यक्तवन्तः। ते शोकसन्तप्त-परिवाराणां प्रति संवेदनां प्रकटयित्वा आहतानां शीघ्र-स्वास्थ्यलाभाय प्रार्थनां कृतवन्तः।

हिन्दुस्थान समाचार / अंशु गुप्ता