Enter your Email Address to subscribe to our newsletters

नवदिल्ली, १३ अप्रैलमासः (हि.स.)। अमेरिकी-सम्प्रदायस्य ‘जीई एयरोस्पेस’ नाम निर्माणी भारतीय-वायु-सेनया सह सन्धिं कृत्वा एलसीए-तेजस-विमानस्य इञ्जिन-सम्बद्धं मरम्मत-केन्द्रं भारते स्थापयिष्यति।
अस्मिन् अन्तर्गतं एफ404-आईएन20-इञ्जिनस्य मरम्मतिः तथा ओवरहॉल-केन्द्रं देशे एव निर्मीयते, यस्य स्वामित्वं वायु-सेनायाः भविष्यति। अनेन विदेशी-निर्भरता न्यूनीभविष्यति तथा मरम्मत-समयः अपि लघुतरः भविष्यति।
जीई एयरोस्पेस-निर्माणी तकनीकी-सहाय्यं, प्रशिक्षणं, उपकरणानि च प्रदास्यति, यद्यपि संचालनं वायु-सेनया क्रियते। एषः उपक्रमः तेजस-विमानानां उपलब्धतां वर्धयिष्यति तथा आपूर्ति-श्रृंखलायाः समस्याः अपि न्यूनी करिष्यति।निर्माण्या उक्तं यत् एषा सहभागिता भारतस्य आत्मनिर्भरता-प्रयत्नान्, कौशल-विकासं तथा तकनीकी-ज्ञान-हस्तांतरणं सुदृढयिष्यति।
हिन्दुस्थान समाचार / अंशु गुप्ता