खेलोइंडिया-कार्यक्रमेण भारतस्य पारम्परिक-क्रीडानां प्रतिष्ठा वर्धिता : राजनाथसिंहः
लखनऊ-नगरम्, १३ अप्रैलमासः (हि.स.)। रक्षामन्त्री राजनाथसिंहः ‘खेलो इंडिया’ कार्यक्रमस्य प्रशंसां कृत्वा अवदत् यत् अनेन भारतस्य पारम्परिक-क्रीडानां प्रतिष्ठा वर्धिता अस्ति। तेन उक्तं यत् देशे सहस्राधिकाः क्रीडा-केन्द्राणि तथा राष्ट्रीय-उत्कृष्टता-केन
खेल महाकुम्भ को संबोधित करते राजनाथ सिंह


लखनऊ-नगरम्, १३ अप्रैलमासः (हि.स.)। रक्षामन्त्री राजनाथसिंहः ‘खेलो इंडिया’ कार्यक्रमस्य प्रशंसां कृत्वा अवदत् यत् अनेन भारतस्य पारम्परिक-क्रीडानां प्रतिष्ठा वर्धिता अस्ति। तेन उक्तं यत् देशे सहस्राधिकाः क्रीडा-केन्द्राणि तथा राष्ट्रीय-उत्कृष्टता-केन्द्राणि स्थाप्यन्ते, येषु प्रशिक्षणं क्रीडा-विज्ञान-सहाय्यं च प्रदीयते।सः अपि अवदत् यत् राष्ट्रीय-शिक्षा-नीतौ क्रीडा विषय-रूपेण समाविष्टा अस्ति तथा ‘खेलो इंडिया’ द्वारा महिलानां सहभागिता वर्धिता अस्ति।

तस्य कथनेन गतवर्षेषु भारतीय-क्रीडकाणां अन्ताराष्ट्रिय-स्तरे उत्कृष्टं प्रदर्शनं जातम् तथा देशे क्रीडा-संरचनायां महत्त्वपूर्णः विकासः अभवत्, येन अधिकानां युवानां कृते क्रीडासु सहभागिता सुलभा जाता।

रक्षामन्त्री अवदत् यत् भारते गत-दश-द्वादश-वर्षेषु क्रीडायाः प्रति वातावरणं पर्याप्तं परिवर्तितम् अस्ति। अधुना भारतदेश: महत्सु क्रीडा-आयोजनेषु स्वकीयं विशिष्टं परिचयं स्थापयितुं सफलः अभवत्। आवश्यकं यत् समाजे क्रीडायाः तथा क्रीडकाणां महत्त्वं न केवलं बोध्यते, अपि तु तेषां विकासाय पूर्ण-अवसरः अपि प्रदीयताम्।

अस्मिन् अवसरे उपमुख्यमन्त्री ब्रजेशपाठकः, क्रीडामन्त्री गिरीशयादवः, राज्यसभा-सांसदः संजयसेठः, महापौरः सुषमाखर्कवालः, पूर्वमन्त्री डा० महेन्द्रसिंहः, एमएलसी रामचन्द्रप्रधानः, अवनीशपटेलः तथा विधायकः डा०नीरजबोरा प्रमुखतया उपस्थिताः आसन्।

हिन्दुस्थान समाचार / अंशु गुप्ता