Enter your Email Address to subscribe to our newsletters

नवदिल्ली, १३ अप्रैलमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी अवदत् यत् तमिलनाडु-राज्ये ‘डबल-इञ्जिन-सरकार’ स्थापनेन विकास-कार्याणां गतिः अधिका शीघ्रा भविष्यति। सः उक्तवान् यत् भाजपानिर्दिष्टं राजगं प्रति जनानां परिवर्तन-अपेक्षा वर्तते तथा कार्यकर्तृणां परिश्रमेण सकारात्मकं वातावरणं निर्मितम्।
सः कार्यकर्तृभ्यः यूनां मतदातृभ्यः सम्पर्कं वर्धयितुं तथा लघु-समूहेषु संवादं कर्तुं प्रेरितवान्। कृषक-कल्याणं, प्रत्यक्ष-लाभ-प्रदानं, स्वास्थ्य-क्षेत्रे प्रगति, आधारभूत-संरचनानां विकासः च उल्लेखितः।
कृषकाणां विषयम् अवलम्ब्य प्रधानमन्त्री अवदत् यत् तेषां कल्याणं सरकारस्य सर्वोच्च-प्राथमिकता अस्ति। केन्द्र-सर्वकारस्य योजनानां लाभः प्रत्यक्षं कृषकान् प्रति प्रापयितुं मध्यस्थ-भूमिका समाप्ता कृता अस्ति। ‘पीएम-किसान-सम्मान-निधि’ अन्तर्गतं तमिलनाडु-राज्यस्य कृषकाणां कृते सहस्र-कोटि-रूप्यकाणि प्रत्यक्षं तेषां धनागारेषु स्थानान्तरितानि सन्ति। अस्मादतिरिक्तं ‘फसल-बीमा-योजना’ अन्तर्गतम् अपि कृषकाणां कथनानां विशाल-स्तरे समाधानं कृतम् अस्ति।
प्रधानमन्त्री विधि-व्यवस्था-विषये चिन्तां व्यक्तवान्। सः अवदत् यत् तमिलनाडु-राज्ये महिलानां सुरक्षायाः विषये गम्भीराः प्रश्नाः उद्भवन्ति। मादक-द्रव्याणां तथा अवैध-मद्यस्य जालं वर्धते, येन यूनां भविष्यं प्रभावितं भवति। सः आरोपितवान् यत् एतादृशानां अवैधानिक-क्रियाणां राज्य-सर्वकारस्य संरक्षणं लभ्यते।
सः डीएमके-सर्वकारस्य आलोचनां कृत्वा आवास-योजना, विधि-व्यवस्था, मादक-द्रव्य-समस्या तथा भ्रष्टाचार-विषये चिन्तां व्यक्तवान्। अन्ते सः आश्वासनं दत्तवान् यत् भविष्ये प्रत्येक-पात्र-परिवाराय पक्क-गृहं तथा योजनानां लाभः सर्वेभ्यः प्रापयितुम् आग्रहं कृतवान्।
हिन्दुस्थान समाचार / अंशु गुप्ता