Enter your Email Address to subscribe to our newsletters

भोपालनगरम्, १३ अप्रैलमासः (हि.स.)। केन्द्रीय-सड़क-परिवहन-राजमार्गमन्त्री नितिन-गडकरी अद्य मध्यप्रदेश-राज्यस्य एकदिवसीय-प्रवासाय आगच्छति। सः रायसेन-नगरे आयोजिते “राष्ट्रीय-उन्नत-कृषि-महोत्सव-२०२६” प्रदर्शिनी-सह-प्रशिक्षण-कार्यक्रमे सहभागितां करिष्यति।जनसम्पर्क-अधिकारी अनुभा-सिंहः उक्तवती यत् निर्धारित-कार्यक्रमानुसारं केन्द्रीय-मन्त्री गडकरी अपराह्णे द्विवादने (२:०० वादने) भोपालतः प्रस्थानं करिष्यति। सः २:२० वादने रायसेन-स्थिते दशहरा-प्राङ्गणं प्राप्स्यति तथा च तत्र राष्ट्रिय-राजमार्ग-परियोजनायाः समीक्षां करिष्यति।
तदनन्तरं सः उन्नत-कृषि-महोत्सवस्य प्रदर्शिनी-सह-प्रशिक्षण-कार्यक्रमे भागं ग्रहीष्यति। केन्द्रीय-मन्त्री गडकरी सायं ५:१० वादने रायसेनतः पुनः भोपालं प्रति प्रस्थानं करिष्यति।
हिन्दुस्थान समाचार / अंशु गुप्ता