Enter your Email Address to subscribe to our newsletters

भुवनेश्वर-नगरम्, १३ अप्रैलमासः (हि.स.)। राजधानी-स्थापना-दिवस-समारोहस्य अवसरे सोमवासरे निमन्त्रणं प्रति राजनैतिक-विवादः समुत्पन्नः, यदा भाजपादलस्य सांसदः अपराजिता-षडंगी तथा भुवनेश्वर-नगरस्य महापौरः सुलोचना-दास इत्येतयोः मध्ये सार्वजनिकतया वक्तव्य-युद्धं दृष्टम्।
कार्यक्रमं सम्बोधयन्ती सांसदः अपराजिता-षडंगी आरोपं कृतवती यत् गत-सर्वकारस्य कार्यकाले तां अस्य समारोहस्य निमन्त्रणं न दीयते स्म। तथापि, अस्मिन् वर्षे निमन्त्रणं प्रदत्तम् इति कारणेन सा वर्तमान-प्रशासनस्य प्रति आभारं व्यक्तवती तथा नगरेण सह स्वस्य भावनात्मक-संबन्धम् उल्लेख्य उक्तवती यत् सा अग्रिमेषु अपि एतस्मिन् आयोजने सहभागिनी भविष्यति।
अन्यतः महापौरः सुलोचना-दास: एतान् आरोपान् “दुर्भाग्यपूर्णान्” इति उक्त्वा निराकृतवती। तया उक्तं यत् तस्याः कार्यकाले प्रतिवर्षं सांसदाय निमन्त्रणं प्रेषितम् अस्ति तथा गतवर्षे दूरभाष-माध्यमेन अपि तां व्यक्तिगतया सूचितवती। महापौरः स्पष्टतया उक्तवती यत् पूर्ववर्षेषु सांसदस्य अनुपस्थिति: तस्याः अन्य-कार्यक्रमाणां कारणेन आसीत्, न तु नगर-निगमस्य कस्यचित् त्रुटेः कारणेन।
हिन्दुस्थान समाचार / अंशु गुप्ता