राष्ट्रपतिः, उपराष्ट्रपतिः अन्ये च नेतारः जलियाँवाला-बाग-हत्याकाण्डस्य बलिदानिभ्यः श्रद्धाञ्जलिम् अर्पितवन्तः
नवदिल्ली, १३ अप्रैलमासः (हि.स.)। राष्ट्रपतिः द्रौपदी-मुर्मुः, उपराष्ट्रपतिः सी.पी.राधाकृष्णन् तथा लोकसभा-अध्यक्षः ओमबिरला इत्यादयः अनेके नेतारः जलियाँवाला-बाग-हत्याकाण्डस्य बलिदानिनां स्मरणं कृत्वा सोमवासरे भावपूर्णां श्रद्धाञ्जलिम् अर्पितवन्तः। र
प्रतीकात्मक चित्र


नवदिल्ली, १३ अप्रैलमासः (हि.स.)। राष्ट्रपतिः द्रौपदी-मुर्मुः, उपराष्ट्रपतिः सी.पी.राधाकृष्णन् तथा लोकसभा-अध्यक्षः ओमबिरला इत्यादयः अनेके नेतारः जलियाँवाला-बाग-हत्याकाण्डस्य बलिदानिनां स्मरणं कृत्वा सोमवासरे भावपूर्णां श्रद्धाञ्जलिम् अर्पितवन्तः।

राष्ट्रपतिः एक्स-माध्यमे लिखितवती यत् एते स्वाधीनता-सेनानिनः राष्ट्रस्य स्वातन्त्र्याय प्राणाहुतिं दत्तवन्तः, येषां स्मरणं देशः सदैव कृतज्ञतया करोति। तेषां देशभक्ति-भावना सर्वान् राष्ट्रसेवायां प्रेरयति इति सा उक्तवती।

उपराष्ट्रपतिः उक्तवान् यत् एतेषां स्मृतिः न्याय-एकता-मानवीय-गरिमा-रक्षणाय तथा सशक्त-भारत-निर्माणाय प्रेरणां ददाति।

लोकसभा-अध्यक्षः ओमबिरला अवदत् यत् एषा घटना स्वाधीनता-सङ्ग्रामे क्रान्तेः ज्वालां प्रज्वालयत् तथा स्वाभिमान-भावनां दृढीकृतवती।

गृहमन्त्री अमितशाहः, रक्षामन्त्री राजनाथसिंहः, नितिन-गडकरी, राहुलगान्धी, मल्लिकार्जुन-खरगे, गिरिराजसिंहः इत्यादयः अपि शहीदान् स्मृत्वा श्रद्धाञ्जलिम् अर्पितवन्तः तथा तेषां बलिदानं राष्ट्रसेवायाः प्रेरणास्रोतः इति उक्तवन्तः।

हिन्दुस्थान समाचार / अंशु गुप्ता