कृषि-विश्वविद्यालयस्य, उद्यानिकी-विश्वविद्यालयस्य तथा कामधेनु-विश्वविद्यालयस्य अन्तर्गतं सञ्चाल्यमानेषु महाविद्यालयेषु प्रवेशाय आवेदनानि आमन्त्रितानि
रायपुर-नगरम्, १३ अप्रैलमासः (हि.स.)। छत्तीसगढ-व्यावसायिक-परीक्षा-मण्डलेन कृषि-विश्वविद्यालयस्य, उद्यानिकी-विश्वविद्यालयस्य तथा कामधेनु-विश्वविद्यालयस्य अन्तर्गतं सञ्चाल्यमानेषु महाविद्यालयेषु प्रवेशार्थं २७ अप्रैलपर्यन्तं अन्तर्जालेन आवेदनानि आमन्त
छत्तीसगढ़ व्यावसायिक परीक्षा मण्डल


रायपुर-नगरम्, १३ अप्रैलमासः (हि.स.)। छत्तीसगढ-व्यावसायिक-परीक्षा-मण्डलेन कृषि-विश्वविद्यालयस्य, उद्यानिकी-विश्वविद्यालयस्य तथा कामधेनु-विश्वविद्यालयस्य अन्तर्गतं सञ्चाल्यमानेषु महाविद्यालयेषु प्रवेशार्थं २७ अप्रैलपर्यन्तं अन्तर्जालेन आवेदनानि आमन्त्रितानि। प्रवेश-परीक्षायाः सम्भाविता तिथिः २१ जून निर्दिष्टा अस्ति।

इन्दिरा-गान्धी-कृषि-विश्वविद्यालये रायपुरे, महात्मा-गान्धी-उद्यानिकी-वानिकी-विश्वविद्यालये साङ्करा-दुर्गे तथा दाऊ-श्री-वासुदेव-चन्द्राकर-कामधेनु-विश्वविद्यालये अञ्जोरा-दुर्गे स्थितानां विश्वविद्यालयानां अधीनस्थेषु ३३ कृषि-महाविद्यालयेषु, ०४ कृषि-अभियांत्रिकी-महाविद्यालयेषु, १७ उद्यानिकी-महाविद्यालयेषु, ०१ वानिकी-महाविद्यालये, ०१ खाद्य-प्रौद्योगिकी-महाविद्यालये, ०१ पशु-चिकित्सा-महाविद्यालये, ०१ दुग्ध-प्रौद्योगिकी-महाविद्यालये तथा ०१ मत्स्य-पालन-महाविद्यालये २०२६ शैक्षणिक-सत्रे प्रवेशार्थं पीएटी तथा पीपीवीटी नाम प्रवेश-परीक्षयोः आयोजनं क्रियते। एतयोः परीक्षयोः कृते २७ अप्रैलपर्यन्तं अन्तर्जालेन आवेदनं कर्तुं शक्यते। प्रवेश-परीक्षायाः सम्भाविता तिथिः २१ जून २०२६ अस्ति। एताः परीक्षाः छत्तीसगढ-राज्यस्य सर्वेषु ३३ जनपद-केन्द्रेषु निर्धारित-परीक्षा-केन्द्रेषु आयोजिताः भविष्यन्ति।

छत्तीसगढ-व्यावसायिक-परीक्षा-मण्डलेन नवा-रायपुरे एतासां परीक्षाणां कार्यक्रमः निर्धारितः। इच्छुकाः अभ्यर्थिनः व्यापम्-जालपुटे अन्तर्जालेन आवेदनं कर्तुं शक्नुवन्ति। आवेदन-समये परीक्षाशुल्कस्य प्रदानम् अन्तर्जाल-पद्धत्या एव करणीयम्। छत्तीसगढ-शासनस्य नियमानुसारं राज्यस्य स्थानीय-निवासिनः ये अभ्यर्थिनः परीक्षायां उपस्थास्यन्ति, तेषां परीक्षाशुल्कं व्यापम-द्वारा प्रत्यावर्तितं भविष्यति।

हिन्दुस्थान समाचार / अंशु गुप्ता