Enter your Email Address to subscribe to our newsletters


मुम्बई-नगरम्, १३ अप्रैलमासः (हि.स.)। प्रख्याता गायिका आशा-भोसले ९२ वर्ष-वयसा दिवंगता अभवत्। ब्रीच-कैण्डी-चिकित्सालये तया अन्तिमः श्वासः गृहीतः। तस्याः पार्थिव-शरीरं अन्तिम-दर्शनार्थं स्थापितम्, यत्र प्रभाते एव बहवः जनाः, चलचित्र-कलाकाराः तथा राजनेतारः आगत्य श्रद्धाञ्जलिं अर्पयन्ति।
प्रसिद्धाः व्यक्तयः यथा सचिन-तेंदुलकरः (पत्नी अञ्जलि-तेंदुलकरा सह), तब्बू, जावेद-अख्तरः, जैकी-श्रॉफः, नील-नितिन-मुकेशः, ए.आर.-रहमानः इत्यादयः उपस्थिताः सन्ति। रितेश-देशमुखः अपि आगत्य श्रद्धाञ्जलिं अर्पितवान्।
महाराष्ट्रस्य मुख्यमन्त्री देवेन्द्र-फडणवीसः अपि तत्र आगत्य पुष्पाञ्जलिं समर्पितवान्। लोअर-परेल-स्थिते ‘कासा-ग्राण्डे’-निवासस्य बहिः अपि प्रशंसकानां विशालः जनसमूहः दृष्टः, ये तस्याः गीतानि गायन्तः स्मरन्ति वा मौनेन श्रद्धां व्यक्तयन्ति।
तस्याः पुत्रः आनन्द-भोसले जनान् अधिक-सम्मर्दं न कर्तुं निवेदितवान्। अद्य सायं ४ वादने मुम्बई-नगरस्य शिवाजी-उद्यान-श्मशान-स्थले राजकीय-सम्मानेन अन्त्येष्टिः करिष्यते।
हिन्दुस्थान समाचार / अंशु गुप्ता