Enter your Email Address to subscribe to our newsletters

नवदिल्ली, १३ अप्रैलमासः (हि.स.)। काङ्ग्रेस-दलस्य नेता राहुलगान्धी असम-राज्यस्य मुख्यमन्त्रिणः हिमन्त-बिस्व-सरमा-इत्यस्य पत्न्याः विषये कृत-आरोपानन्तरं पवन-खेड़ा विरुद्धं दत्तस्य प्रकरणस्य सन्दर्भे तस्य समर्थनं कृतवान्। सः अवदत् यत् “वयं न भेष्यामः, काङ्ग्रेसपक्ष: पवन-खेड़ा-सहितं स्थित: अस्ति।”
राहुलगान्धी अवदत् यत् मुख्यमन्त्री स्वकीयां शक्तिं विपक्ष-नेतान् प्रति दुरुपयुङ्क्ते, यत् संविधान-विरुद्धम् अस्ति। सः अपि उक्तवान् यत् पवन-खेड़ा-इत्यनेन कृतानाम् आरोपाणां निष्पक्षतया परीक्षणं कर्तव्यम्।
तस्य अनुसारं पारदर्शिता, उत्तरदायित्वं तथा विधेः शासनम् संवैधानिक-मूल्यानां आधारः अस्ति। अतः अस्य प्रकरणस्य सम्यक् अन्वेषणं आवश्यकम् इति तेन प्रतिपादितम्।
हिन्दुस्थान समाचार / अंशु गुप्ता