Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 13 अप्रैलमासः (हि.स.)।
गृहमन्त्री अमित शाहः तथा सड़क परिवहन एवं राजमार्ग मन्त्री नितिन गडकरी सोमवासरे सर्वेभ्यः वैशाखी पर्वणः हार्दिकाः शुभाशयाः अददाताम्।
अमितशाहः एक्स इति सामाजिकमाध्यमे अवदत् यत् — “अहं कामये यत् एषः उत्साहहर्षोल्लासपूर्णः पर्वः भवतः जीवनं समृद्ध्या उत्तमस्वास्थ्येन च पूरयेत्, तथा च सुखं शान्तिं नूतनऊर्जां च प्रसारयेत्।”
गडकरीमहाशयः अपि उक्तवान् — “उत्साहहर्षोल्लासपूर्णस्य पावनस्य वैशाखीपर्वणः हार्दिकाः शुभाशयाः। एषः पर्वः सर्वेषां जीवनं उत्तमस्वास्थ्येन समृद्ध्या च सुखैः पूरयतु।”
उल्लेखनीयम् अस्ति यत् वैशाखी मुख्यतया पंजाबहरियाणप्रदेशयोः कृषकाणां प्रमुखः रबीफसलोत्सवः अस्ति, यः प्रतिवर्षं एप्रिलमासस्य त्रयोदश्यां चतुर्दश्यां वा दिवसे आचर्यते।
सिखधर्मे अस्य विशेषमहत्त्वं अस्ति, यतः १६९९ तमे वर्षे गुरु गोविन्दसिंहेन खालसापन्थस्य स्थापना अभवत्। हिन्दुधर्मे तु अस्मिन् दिने सूर्यः मेषराशिं प्रविशति इति मन्यते, तथा गङ्गास्नानम् अत्यन्तं शुभं मन्यते।
---------------
हिन्दुस्थान समाचार