Enter your Email Address to subscribe to our newsletters

नवादा-नगरम्, १३ अप्रैलमासः (हि.स.)। भारतीय-जनता-पार्टी-कार्यालये नवादा-नगरस्य अन्तर्गतं ‘नारी-शक्ति-वन्दन-अधिनियम’ विषयिण्याः सोमवासरे एकस्याः महत्त्वपूर्णायाः पत्रकार-वार्तायाः आयोजनं कृतम्। अस्मिन् अवसरे मुख्यातिथित्वेन पूर्व-प्रदेश-मन्त्री डॉ.पूनम-शर्मा कार्यक्रमं सम्बोधितवती।
डॉ.पूनम-शर्मा उक्तवती यत् एषः अधिनियमः स्वतन्त्र-भारतस्य इतिहासे स्वर्णिम-अध्यायः इव अस्ति। सा अवदत् यत् एषः अधिनियमः महिलाः केवलं ‘मत-बैंक’ इति मन्यमानां मानसिकतां निरस्य, ताः नेतृत्वकारी-भूमिकायां प्रतिष्ठापयिष्यति। तया उक्तं यत् केन्द्रीय-सर्वकारः अस्य अधिनियमस्य माध्यमेन महिलाभ्यः लोकसभायां तथा विधानसभासु ३३ प्रतिशतं आरक्षणं प्रदाय, ताः नीति-निर्धारक-रूपेण ‘नायक’-भूमिकायां अग्रे नयति।
सा अवदत् यत् सर्वकारः अधिनियमे आवश्यक-संशोधनानि करोतिः, यथा आगामि-जनगणनानन्तरं भविष्यतः परिसीमनस्य प्रतीक्षा न कर्तव्या स्यात्। अस्य उद्देश्यं यत् २०२९-वर्षस्य निर्वाचनासु संसदः मार्गेषु नारी-शक्तेः सशक्त-उपस्थिति: सुनिश्चिता भवेत्।
मोदी-सर्वकारस्य उपलब्धिनाम् उल्लेखं कुर्वन्ती सा अवदत् यत् गत-१२-वर्षेषु देशः ‘महिला-नेतृत्व-आधारित-विकास’-आदर्शेन अग्रे गतवान्। तया सूचितं यत् ५६-कोटि: जन-धन-धनागारेषु ५६ प्रतिशतं पंजीका: महिलानाम् सन्ति, तथा मुद्रा-योजनायाः अन्तर्गतं ७० प्रतिशतं ऋणानि महिलाभ्यः प्रदत्तानि सन्ति, येन ताः आत्मनिर्भराः भवन्ति।
अस्मिन् अवसरे महिला-मोर्चा-जनपदाध्यक्षाः माधुरी-वर्णनवाल, पूर्व-महिला-जनपदाध्यक्षाः गौरी-रानी, अल्पसंख्यक-मोर्चा-अध्यक्षा अफसाना-खातून तथा मण्डल-अध्यक्षा शिवरानी-केशरी इत्यनया सह अन्याः कार्यकर्त्र्य: अपि उपस्थिताः आसन्।
हिन्दुस्थान समाचार / अंशु गुप्ता