अयोध्यायां श्रीराम जन्मभूमि समेत्य परिसरस्य सर्वेषु मन्दिरेषु दर्शनं प्रारब्धं, निर्गतं भविष्यति आनलाइनप्रतिवेदनम्
अयोध्या, 13 अप्रैलमासः (हि.स.)। अयोध्यास्थिते श्रीरामजन्मभूमिमन्दिरे सहिते परिसरे सर्वेषु मन्दिरेषु मण्डपेषु च सोमवासरात् दर्शनानि प्रारब्धानि। एतेषु मन्दिरेषु दर्शनार्थं पासमाध्यमेन निर्धारितसंख्यायाः श्रद्धालवः एव प्रवेशं लभन्ते। पासप्राप्तये काश
सप्त मंदिर में दर्शन करते हुए आम श्रद्धालु


सप्त मंदिर में दर्शन करते हुए आम श्रद्धालु


मंदिर में दर्शन करते हुए आम श्रद्धालु


सप्त मंदिर में दर्शन करते हुए आम श्रद्धालु


अयोध्या, 13 अप्रैलमासः (हि.स.)। अयोध्यास्थिते श्रीरामजन्मभूमिमन्दिरे सहिते परिसरे सर्वेषु मन्दिरेषु मण्डपेषु च सोमवासरात् दर्शनानि प्रारब्धानि। एतेषु मन्दिरेषु दर्शनार्थं पासमाध्यमेन निर्धारितसंख्यायाः श्रद्धालवः एव प्रवेशं लभन्ते। पासप्राप्तये काश्चन शर्ताः अपि निर्धारिताः सन्ति, यथा श्रद्धालूनां काचनापि असुविधा न भवेत्। अस्य कृते सर्वाः आवश्यकतयार्याः व्यवस्थाः सम्पूर्णाः कृताः सन्ति।

ऑनलाइन-पासद्वारा प्रवेशः

श्रीरामजन्मभूमिमन्दिरपरिसरे निर्मितेषु सर्वेषु अष्टादशसु (१८) मन्दिरेषु सामान्यश्रद्धालूनां कृते आद्यत्रिमासपर्यन्तं परीक्षणरूपेण दर्शनानि आयोज्यन्ते।

मन्दिरव्यवस्थया सम्बद्धः गोपालः अवदत् यत् अद्य १३ एप्रिलदिनात् आरभ्य प्रतिदिनं १५०० श्रद्धालवः ऑनलाइन-पासद्वारा दर्शनं कुर्वन्ति। अस्मिन् सुगमविशिष्टसामान्यदर्शनार्थं पृथक्-पृथक् ५००-५०० पासाः निर्धारिताः सन्ति। पञ्जीकरणं “प्रथमम् आगच्छ, प्रथमम् प्राप्नुहि” इति आधारपरं भवति।

श्रद्धालवः सामान्यप्रवेशमार्गेण प्रविश्य रामललादर्शनं कुर्वन्ति। ततः दक्षिणसीढ्याः मार्गेण रामपरिवारस्य दर्शनानि क्रियन्ते। अनन्तरं परकोटामार्गेण शेषावतारमन्दिरं, सप्तमण्डपम्, कुबेरनवरत्नटीला च दर्शयन्ति।

दर्शनार्थं एकस्मिन् कुले अधिकतमं पञ्च (५) जनानाम् एव पासः निर्मीयते। ऑनलाइन-अनुप्रयोगे छायाचित्रम् अनिवार्यम् अस्ति तथा सर्वैः श्रद्धालुभिः आधारकार्डम् अनिवार्यतया वहनीयम्। पासाः द्वि-द्विघण्टायाः समयखण्डेषु निर्गच्छन्ति।---------------

हिन्दुस्थान समाचार