Enter your Email Address to subscribe to our newsletters

—नमामि गंगे इत्यस्य स्वयंसेवकाः धाम्नि वस्त्रस्यूताः वितरिताः
वाराणसी, 13 अप्रैलमासः (हि.स.)। वाराणसीस्थिते काशी-विश्वनाथद्वारे मन्दिरपरिसरे सोमवासरे यत्र पुण्यभक्त्योः वातावरणम् आसीत्, तत्रैव नमामिगंगा इत्यस्य स्वयंसेवकाः पर्यावरणसंरक्षणस्य स्वच्छतायाः च जागरणं कृतवन्तः।
श्रद्धालवः धामे एकवारप्रयुक्तपॉलिथीन इत्यस्य उपयोगं मा कुर्वन्तु इति प्रति जागरूकाः कृताः। श्रीकाशीविश्वनाथधामपरिसरे सहस्रशः श्रद्धालूनां मध्ये विशेषपर्यावरणसंरक्षण-अभियानस्य अन्तर्गतं स्वयंसेवकैः वस्त्रनिर्मिताः झोलकाः वितरिताः।
कार्यक्रमे सहभागी राजेशशुक्लो नगरनिगमवाराणस्याः स्वच्छताब्राण्डदूतः श्रद्धालुभिः पर्यटकैः सह स्वच्छतासन्देशं दत्त्वा वस्त्रझोलकान् हस्तेषु धारयित्वा जनजागरूकतापदयात्रां कृतवान्।
अस्मिन् अवसरे राजेशशुक्लः अवदत् यत् स्वच्छता केवलं व्यक्तिगतस्तरे न सीमिता भवेत्, अपि तु सा अस्माकं सामाजिकनैतिककर्तव्यं अस्ति। स्वच्छपर्यावरणे जीवनं यापनं स्वास्थ्यं वर्धयति, यदा तु अशुचिता रोगाणां प्रसारकारणं भवति।
अस्माभिः अवसरो मार्गेषु न क्षेप्तव्यः, अपि तु कूड़ापात्रेषु एव निक्षेपणीयः इति सः उक्तवान्। कार्यक्रमे विशेषतया एकवारप्रयुक्तपॉलिथीनस्य दुष्प्रभावाः प्रकाशिताः तथा तस्य बहिष्कारस्य अपि आह्वानं कृतम्।
नमामिगङ्गा-दलेन जीवनदायिनीनदीनां स्वच्छतां रक्षितुं तेषां तीरेषु च स्वच्छतां धारयितुं आह्वानं कृतम्।
अस्मिन् आयोजने श्रद्धालूनां सक्रियभागीदारी विशेषाकर्षणम् आसीत्। श्रद्धालवः पर्यटकाश्च विश्वनाथधामपरिसरे स्वच्छतासन्देशं प्रसारयन्तः“स्वच्छ भारत मिशन” इत्यस्य भावनां वैश्विकपरिचयेन समृद्धवन्तः।
हिन्दुस्थान समाचार