Enter your Email Address to subscribe to our newsletters

वाराणसी, 12 अप्रैलमासः(हि.स.)।
उत्तरप्रदेशस्य वाराणसीजनपदे केशरीपुरस्थे भारतीयजनतादलस्य क्षेत्रीयकार्यालये सोमवासरे बहुसंख्यकाः महिलाः एकत्रिताः सन्तः नरेन्द्र मोदिनो “नारीशक्ति वन्दनसम्मेलन-अधिनियम” इत्यस्य प्रत्यक्षप्रसारणकार्यक्रमं श्रुतवन्त्यः। कार्यक्रमस्य अनन्तरं महिलाः प्रसन्नतां व्यक्तवन्त्यः तथा भविष्यनिर्णयेषु विषये उत्साहिताः दृश्यन्ते स्म।
नवदिल्लीस्थिते विज्ञानभवनेआयोजिते नारीशक्ति वन्दनसम्मेलने प्रधानमन्त्रीमोदिं वाराणस्यां उपविश्य प्रत्यक्षरूपेण श्रुत्वा प्रतिभा रीना च स्वप्रतिक्रियाम् अदत्ताम्। ताभ्यां उक्तं यत् अद्यतनः दिवसः महिलानां नाम्ना आसीत्। नारीशक्तेः कृते प्रधानमन्त्रीमोदिना पुनः एकः उपहारः दत्तः। महिलानां कृते आरक्षणस्य संकेतः महत्त्वपूर्णः विषयः अस्ति। अद्य वयं महिलाः प्रधानमन्त्रीमोदिनः वचनानि सावधानतया श्रुतवन्त्यः, अस्माकं मनः अत्यन्तं प्रफुल्लितम् अभवत्।
उल्लेखनीयम् अस्ति यत् नवदिल्लीस्थे विज्ञानभवने आयोजिते कार्यक्रमे प्रधानमन्त्री नरेंद्रमोदी अवदत् यत् षोडश, सप्तदश, अष्टादश एप्रिलदिनेषु संसदः विशेषसत्रं आयोजितं भविष्यति। तस्मात् पूर्वम् अद्य नारीशक्ति वन्दनकार्यक्रमः आयोजितः, येन देशस्य कोटिकोट्यः मातृभगिन्यः आशीर्वादं ददति इति सः उक्तवान्।
वर्षे २०२३ तमे नूतनसंसदि “नारीशक्ति वन्दन अधिनियम” इति रूपेण प्रथमः पादः स्थापितः आसीत्, अधुना तस्य प्रभावीकार्यान्वयनस्य दिशि अग्रे गम्यते।
---------------
हिन्दुस्थान समाचार