मुख्यमंत्री धामी स्वयं स्वीकृतवान्मार्जनीं ,स्वच्छतायै प्रेरितवान् जनान्
देहरादून,13 अप्रैलमासः (हि.स.)। मुख्यमन्त्री पुष्करसिंहधामी सोमवासरे प्रातःकाले बल्लूपुरचौके नगरनिगमेन आयोजिते ‘स्वेच्छया स्वच्छता’ अभियाने सहभागित्वं कृत्वा स्वच्छतां जनान्दोलनरूपेण स्थापयितुं आह्वानं कृतवान्। मुख्यमन्त्री स्वयमेव मार्जनीग्रहणं कृ
मुख्यमंत्री पुष्कर सिंह धामी बल्लूपुर चौक पर झाड़ू लगाकर स्वच्छता का संदेश देते हुए।


देहरादून,13 अप्रैलमासः (हि.स.)। मुख्यमन्त्री पुष्करसिंहधामी सोमवासरे प्रातःकाले बल्लूपुरचौके नगरनिगमेन आयोजिते ‘स्वेच्छया स्वच्छता’ अभियाने सहभागित्वं कृत्वा स्वच्छतां जनान्दोलनरूपेण स्थापयितुं आह्वानं कृतवान्। मुख्यमन्त्री स्वयमेव मार्जनीग्रहणं कृत्वा स्वच्छतां अकरोत् तथा सामान्यजनान् स्वच्छपर्यावरणरक्षणाय प्रेरितवान्।

अस्मिन् अवसरः मुख्यमन्त्री अवदत् यत् — “स्वच्छता केवलं शासकीयप्रयत्नैः न साध्यते, अस्य कृते प्रत्येकस्य नागरिकस्य सक्रियभागीदारी अत्यावश्यका अस्ति।” सः अपि उक्तवान् यत् यावत् जनाः स्वेच्छया स्वगृहस्य, स्वगलिकायाः, स्वनगरस्य च स्वच्छतां स्वकर्तव्यरूपेण न मन्यन्ते, तावत् स्थायिपरिवर्तनं न सम्भवति।

तेन देहरादूननगरनिगमस्य प्रयासः प्रशंसितः। सः उक्तवान् यत् एते प्रकाराः अभियानाः समाजे सकारात्मकविचारं जनयन्ति तथा एते नियमितरूपेण प्रवर्तनीयाः, यथा स्वच्छता जनजीवने स्वभावरूपेण स्थापितुं शक्यते।

निगमेन ७ एप्रिलतः १३ एप्रिल २०२६ पर्यन्तं सञ्चालितस्य अस्य विशेषअभियानस्य उद्देश्यं नगरं स्वच्छं सुन्दरं स्वस्थं च कर्तुम् आसीत्। अस्याः योजनायाः अन्तर्गतं विविधेषु वार्डेषु व्यापकस्तरेण स्वच्छता, कूड़ानिस्तारणम् तथा जनजागरूकतासम्बद्धाः क्रियाकलापाः संचालिताः, येन नागरिकेषु स्वच्छतायाः प्रति उत्तरदायित्वबोधः दृढीकृतः।

अस्मिन् अवसरे कैबिनेटमन्त्री गणेशजोशी, खजानदास, राज्यसभासांसदः तथा भाजपा प्रदेशाध्यक्षः महेन्द्रभट्ट, मेयरः सौरभथपलियाल, विधायकः सविताकपूर, संगठनमहामन्त्री अजेयकुमार इत्यादयः अनेकाः जनप्रतिनिधयः अधिकारिणश्च उपस्थिताः आसन्।

हिन्दुस्थान समाचार