बाबा साहेबस्य जीवन संघर्षः, समानता न्यायश्चेत्येषां प्रतीकः -प्रकाश पालः
कानपुरम्, 14 अप्रैलमासः (हि.स.)।“बाबासाहेबस्य डॉ. भीमराव अंबेडकर जीवनं संघर्षस्य, समानतायाः न्यायस्य च प्रतीकः अस्ति। तेन समाजस्य सर्वेषां वर्गाणां अधिकारप्राप्तये यत् योगदानं कृतम्, तत् सदा प्रेरणादायकं भविष्यति” इति मङ्गलवासरे भारतीय जनता पार्टी
कार्यक्रम के दौरान लिया गया छायाचित्र


कानपुरम्, 14 अप्रैलमासः (हि.स.)।“बाबासाहेबस्य डॉ. भीमराव अंबेडकर जीवनं संघर्षस्य, समानतायाः न्यायस्य च प्रतीकः अस्ति। तेन समाजस्य सर्वेषां वर्गाणां अधिकारप्राप्तये यत् योगदानं कृतम्, तत् सदा प्रेरणादायकं भविष्यति” इति मङ्गलवासरे भारतीय जनता पार्टी क्षेत्रीयाध्यक्षः प्रकाश पाल उक्तवान्।

संविधानशिल्पिनः ‘भारत-रत्न’ डॉ. भीमराव अंबेडकर महोदयस्य १३५-तम-जयन्त्याः अवसरॆ किदवई-नगर-विधानसभाक्षेत्रस्य कार्यकर्तृभिः भाजपा-क्षेत्रीय-मुख्यालये भव्यगोष्ठ्याः आयोजनं कृतम्।

जिला-मीडिया-प्रभारी संजीव बेरी उक्तवान् यत् कार्यक्रमे बाबासाहेबस्य चित्रे पुष्पाञ्जलिः अर्पिता, तं प्रति भावपूर्णा श्रद्धाञ्जलिः च प्रदत्ता। तेन सह तेन रचितस्य भारतीयसंविधानस्य सामाजिकसमरसतायाः च विचाराः आत्मसात्कर्तुं संकल्पः अपि कृतः।

मुख्यातिथिरूपेण उपस्थितः क्षेत्रीयाध्यक्षः प्रकाश पाल स्वभाषणे बाबासाहेबस्य जीवनं तस्य योगदानं च विस्तरेण प्रकाशयामास। सः कार्यकर्तॄन् आहूतवान् यत् बाबासाहेबस्य विचाराः जन-जनपर्यन्तं प्रसारयितव्याः।

कार्यक्रमस्य अध्यक्षतां कुर्वन् जिला-अध्यक्षः शिवराम सिंह उक्तवान् यत् भारतीय जनता पार्टी बाबासाहेबस्य आदर्शान् अनुसृत्य समाजस्य अन्तिमपुरुषपर्यन्तं विकासं प्रापयितुं संकल्पिता अस्ति। एषः दिवसः सामाजिकसमरसतायाः, समानतायाः संविधानकर्तव्यस्मरणस्य च अवसरं ददाति।

अस्मिन् कार्यक्रमे विशिष्टातिथिरूपेण रघुनन्दनसिंह भदोरिया, के.के. सचान, भूपेन्द्र त्रिपाठी, जयप्रकाश कुशवाहा इत्यादयः उपस्थिताः आसन्। तथा बहवः कार्यकर्तारः अपि उपस्थिताः आसन्।

हिन्दुस्थान समाचार