Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 14 अप्रैलमासः (हि.स.)।बैसाखी-पावनावसरे उपराष्ट्रपतिः सी.पी. राधाकृष्णनः गुरुद्वारे रकाबगंजसाहिब् इति स्थले उपगम्य श्रद्धया मस्तकं नत्वा देशवासिनां सुखं शान्तिं समृद्धिं च प्रार्थितवान्।
अस्मिन् अवसरि दिल्ली-प्रदेशस्य उपराज्यपालः तरनजीत सिंधुः तथा दिल्ली-मन्त्री मनजिंदर सिंह सिरसा अपि उपस्थितौ आस्ताम्।
उपराष्ट्रपतिः सङ्गत्या सह गुरुद्वारपरिसरे श्रद्धां व्यक्तवान् तथा बैसाखी-महत्त्वपूर्ण-पर्वणि देशे परस्पर-सद्भावं समृद्धिं सर्वेषां कल्याणं च प्रार्थितवान्।
-----------
हिन्दुस्थान समाचार