Enter your Email Address to subscribe to our newsletters

पटना, 14 अप्रैलमासः (हि.स.)। बिहारराज्यस्य राजनीतिक्षेत्रे मङ्गलवासरे महत्त्वपूर्णः घटनाक्रमः अभवत्, यदा मुख्यमन्त्री नीतीशकुमारस्य अध्यक्षतायां सम्पन्नायां मन्त्रिमण्डलस्य सभायां वर्तमानसरकारस्य विघटनस्य निर्णयः कृतः। प्रायः विंशतिमिनिटपर्यन्तं प्रवृत्तायां अस्यां सभायां मन्त्रिमण्डलेन सर्वसम्मत्या अस्य प्रस्तावस्य अनुमोदनं कृतम्, येन सरकारस्य औपचारिकसमापनस्य मार्गः स्पष्टः अभवत्।
मन्त्रिमण्डलसभायां मुख्यमन्त्री नीतीशकुमारः मन्त्रिणः सम्बोध्य भावुकतया उक्तवान् यत् सः दिल्लीं गच्छति, किन्तु तत्र अपि राज्यस्य स्थितिषु दृष्टिं स्थापयिष्यति। तेन सर्वेषां मन्त्रिणां प्रति स्नेहः कृतज्ञता च व्यक्ता। अनन्तरं तेन मन्त्रिमण्डलविघटनस्य घोषणा कृता, येन सभायाः वातावरणं भावुकतया पूर्णम् अभवत्।
सभाया अनन्तरं मन्त्री लखेन्द्रपासवानः उक्तवान् यत् मुख्यमन्त्री एतत् क्षणं भावुकम् इति उक्त्वा सर्वान् मन्त्रिणः पूर्वात् अपि उत्तमं कार्यं कर्तुं प्रेरितवान्। सः अवदत् यत् सरकारेण सहकार्येण बिहारराज्यं विकसितराज्यं कर्तुं महत्त्वपूर्णाः प्रयासाः कृताः, अधुना तदग्रे नेतुं सर्वेषां दायित्वम् अस्ति।
तथैव मन्त्री रामकृपालयादवः अवदत् यत् अयं क्षणः अत्यन्तं भावुकः आसीत् तथा मुख्यमन्त्री सर्वेषां प्रति कृतज्ञतां प्रकटितवान्। तेन उक्तं यत् नीतीशकुमारः प्रायः विंशतिवर्षपर्यन्तं राज्यस्य विकासाय कार्यं कृतवान् तथा अधुना सः राज्यपालाय स्वस्य त्यागपत्रं दातुं गच्छति।
मन्त्री लेसीसिंह अपि एतत् गौरवपूर्णं भावुकं च क्षणम् इति उक्तवती। सा अवदत् यत् एतादृशेन नेतृणा सह दीर्घकालपर्यन्तं कार्यं कर्तुं तस्याः कृते सम्मानस्य विषयः आसीत्।
मन्त्रिमण्डलविघटनानन्तरं मुख्यमन्त्री नीतीशकुमारः अद्य अपराह्णे त्रिवादनपञ्चदशमिनिटसमये राज्यपालाय स्वस्य त्यागपत्रं दास्यति। अस्मिन् मध्ये भारतीयजनतापार्टी अपि अद्य विधायकदलस्य महत्त्वपूर्णां सभां आहूतवती, यस्यां केन्द्रीयपर्यवेक्षकत्वेन शिवराजसिंहचौहानः सहभागी भविष्यति। तथा च दलस्य राष्ट्रीयाध्यक्षः नितिननवीनः पट्टननगरं प्रति आगच्छति इति सूचना अस्ति।
राजनीतिकवृत्तेषु अधुना नूतनसरकारस्य गठनं सम्भाव्यशपथग्रहणसमारोहस्य च विषयेषु सज्जता तीव्रतया प्रवर्तते।
-------------
हिन्दुस्थान समाचार