Enter your Email Address to subscribe to our newsletters

रायपुरम्, 14 अप्रैलमासः (हि.स.)।
छत्तीसगढ़राज्यस्य रायपुरजिलायां प्रधानमन्त्रीकिसानसम्माननिधियोजनायाः अन्तर्गतं भौतिकसत्यापनस्य समये महत् मिथ्याचारप्रकरणम् उद्घाटितम् अस्ति। अस्मिन् रायपुरजिले २१६३ मृतककृषकाणां परिचयः कृतः, येषां मरणानन्तरम् अपि तेषां बैंकलेखेषु योजनायाः धनराशिः प्रेष्यते स्म।
अस्य मिथ्याचारस्य प्रारम्भिकपरीक्षणे १३१० कृषकाः अपात्राः इति ज्ञाताः, ये योजनायाः नियमेषु लाभग्रहणाय अयोग्याः आसन्। अधिकारिभिः एतत् सुनिश्चितं यत् १३१० अपात्रकृषकाणां परिचयः कृतः अस्ति। एतेषां सर्वेषां नामानि अपसारणार्थं सूची निर्माय राज्य मुख्यालयं प्रेषिता अस्ति। अधुना एते सर्वे सन्दिग्धलेखाः अवरुद्धाः कृताः सन्ति।
कृषिविभागस्य अधिकारिणः अवदन् यत् बहुषु प्रकरणेषु कृषकाणां मरणानन्तरं तेषां बान्धवाः विभागं न सूचितवन्तः तथा च मिथ्यया धनराशेः ग्रहणं निरन्तरं कृतवन्तः। रायपुरजिले अस्य योजनायाः मिथ्याचारः २०२६ वर्षस्य अप्रैलमासस्य मध्ये भौतिकसत्यापनस्य समये प्रकाशम् आगतः। प्रशासनम् अद्यपर्यन्तं ११००० अधिकान् सन्दिग्धलेखान् अभिज्ञातवान्। एते लेखाः अवरुद्धाः कृताः तथा च अपात्रकृषकाणां नामापसारणार्थं सूची मुख्यालयं प्रेषिता।
अपात्रलाभार्थिभ्यः दत्तस्य धनस्य पुनरुद्धाराय कृषिविभागेन पुनरुद्धारसूचनाः निर्गन्तुं सज्जता क्रियते। अस्मिन् रायपुरजिल्लायाम् अस्य योजनायाः अन्तर्गतं ९२५१८ कृषकाः पञ्जीकृताः सन्ति। भौतिकसत्यापनेन ज्ञातम् यत् बहुवर्षपर्यन्तं न विभागेन सत्यापनं कृतम्, न च बान्धवैः काचित् सूचना दत्ता। अस्याः अवहेलनायाः लाभं गृहित्वा अपात्राः मृतककृषकाणां नाम्ना कोटिशः धनराशिः प्रदत्ता अभवत्।
अद्यतनतया निर्गतायाः २२तमकिस्तायाः अन्तर्गतं कृषकाणां कृते १८.७१ कोटिरूप्यकाणि प्रेषितानि, तदा अस्य प्रकरणस्य यथार्थता प्रकाशिता। अधुना सर्वेषां विवरणानां परीक्षणं क्रियते, यतः अपात्रेभ्यः धनस्य पुनरुद्धारः क्रियेत।
केचन प्रकरणानि अपि दृष्टानि यत्र लाभार्थिनां पञ्जीकरणं पूर्णम् अस्ति तथा च तेषां नाम पात्रसूच्यां अस्ति, तथापि तेषां लेखेषु धनराशिः न प्राप्ता। अनेन कारणेन लाभार्थिषु असन्तोषः वर्धते। एतेषु रीकोग्रामस्य ओमप्रकाशयदुः, रामचरणपटेलः, दीनानाथसाहुः, चितरेखासाहुः, रजनीकान्तबंजारे च सन्ति। ते अवदन् यत् पूर्ववर्षेषु ते नियमितरूपेण योजनायाः किस्तं प्राप्नुवन्ति स्म। वर्षे २०२६ अपि ते पात्रसूच्यां सन्ति, किन्तु अस्मिन् समये तेषां लेखेषु धनराशिः न आगता। तैः शिकायत् अपि निबद्धा।
आधिकारिकस्रोतैः उक्तम् यत् दीनदयालउपाध्यायभूमिहीनकृषिमजदूरकल्याणयोजनायाः अन्तर्गतं प्रदेशे प्रायः १० प्रतिशतं लाभार्थिनां लेखेषु वर्ष २०२६ तस्याः किस्तः अद्यावधि न प्राप्ता, यद्यपि तेषां नाम पात्रसूच्यां अस्ति तथा च पञ्जीकरणं सम्पन्नम् अस्ति।
अधिकारिणः वदन्ति यत् दत्तांशसंशोधनाय ‘करेक्शनमॉड्यूल्’ इति प्रणाली उपयुज्यते, येन केवलं पात्रकृषकाः एव लाभं प्राप्नुयुः। शासनस्य नियमाणां अनुसारं मृतकअपात्रकृषकाणां बान्धवैः मिथ्यया प्राप्ता धनराशिः प्रत्यर्पणीया भवति।
________________
हिन्दुस्थान समाचार