Enter your Email Address to subscribe to our newsletters

धमतरी-नगरम्, १४ अप्रैलमासः (हि.स.)। आंबेडकर जयंती-अवसरे श्रीदेव-युवा-मञ्चेन सेवा-भावनायाः उत्कृष्टं उदाहरणं प्रदर्शित्वा विद्यालयीय-बालकेभ्यः जल-पात्राणि वितरितानि। तीव्र-उष्णतां दृष्ट्वा शीतल-पेयजल-प्रदानस्य उद्देशेन कृतम् एतत् कार्यं समाजस्य कृते प्रेरणादायकम् अभवत्।
छत्तीसगढ़-महार-महरा-समाजस्य युवा-संगठनेन आयोजिते अस्मिन् कार्यक्रमे जयंती-उत्सवः केवलं उत्सव-पर्यन्तं न स्थाप्य सेवा-कार्येण सह सम्बद्धः इति सन्देशः दत्तः। बालकेभ्यः जल-धारणार्थं पात्राणि प्रदाय बाबासाहेबं प्रति श्रद्धा अपि व्यक्ता। अस्मिन् अवसरे हरिकिशन-पावरिया-महाशयेन उक्तं यत् जीवनस्य महत्त्वपूर्ण-क्षणानां सार्थक्याय आवश्यकं यत् वयं समाजस्य आवश्यकतानुसारं जनानां कृते कार्यं कुर्मः।
एवमेव पार्षदः सुमन-मेश्राम-महाशयः अवदत् यत् बाबासाहेबेन कठिन-परिस्थितिषु अपि शिक्षा, समता, नारी-सशक्तिकरणस्य च यः मार्गः प्रदर्शितः, सः अद्यापि समाजस्य प्रेरणास्त्रोतः अस्ति। कार्यक्रमे रामचन्द्र-मेश्राम:, चन्द्रभान-मेश्राम:, श्रवण-मेश्राम:, मिलाप-मेश्राम, सोमेश-मेश्राम:, रामेश्वर-सिसोदिया, प्रकाश-नाग: इत्यादयः अन्ये जनाः च उपस्थिताः आसन्।
हिन्दुस्थान समाचार / अंशु गुप्ता