खरमास-समाप्तिः, १५ अप्रैलमासतः २५ जुलाईमास-पर्यन्तं २९ शुभ-मुहूर्तेषु भविष्यन्ति मांगलिक-आयोजनानि : पं.राम-कृष्ण-शर्मा
लखनऊनगरम्, १४ अप्रैलमासः (हि.स.)। ज्योतिष-गणनानुसारं अद्य दिवसे ११:४५ वादने सूर्य मेष-राशौ प्रवेशं करिष्यति, येन खरमासः समाप्तः भविष्यति। अयं योगः ‘मेष-संक्रान्तिः’ इति कथ्यते। अस्याः परिवर्तनानन्तरं १५ अप्रैलमासतः विवाह-वाग्दान-गृहप्रवेशादयः शुभ-क
प्रतीकात्मक फोटो


लखनऊनगरम्, १४ अप्रैलमासः (हि.स.)। ज्योतिष-गणनानुसारं अद्य दिवसे ११:४५ वादने सूर्य मेष-राशौ प्रवेशं करिष्यति, येन खरमासः समाप्तः भविष्यति। अयं योगः ‘मेष-संक्रान्तिः’ इति कथ्यते। अस्याः परिवर्तनानन्तरं १५ अप्रैलमासतः विवाह-वाग्दान-गृहप्रवेशादयः शुभ-कार्याणि पुनः प्रारभ्यन्ते इति पण्डित-ज्योतिषाचार्यः राम-कृष्ण-शर्मा अवदत्।

सः अपि अवदत् यत् अस्मिन् वर्षे अधिक-ज्येष्ठ-मासः १७ मईमासतः १५ जूनमासपर्यन्तं भविष्यति, यस्मिन् विवाहादयः मांगलिक-कार्याणि वर्जितानि भवन्ति। ततः २५ जुलाई-मासे देवशयनी-एकादशी भविष्यति, येन चातुर्मासस्य आरम्भः स्यात्, अतः विवाह-कार्याणि पुनः स्थगितानि भविष्यन्ति।

एवं १५ अप्रैलमासतः २५ जुलाईमास-पर्यन्तं मध्ये केवलं २९ शुभ-मुहूर्ताः (तिथयः) एव उपलब्धाः सन्ति, ये मांगलिक-कार्येषु श्रेष्ठाः मन्यन्ते।

ततः परं २० नवम्बरतः देवोत्थान-एकादश्याः अनन्तरं विवाह-कार्याणि पुनः आरभ्यन्ते, ये ६ दिसम्बरपर्यन्तं भविष्यन्ति। अन्याः केचन विशेष-तिथयः अपि ग्रहोच्चार-आधारेण विचार्यन्ते, किन्तु ताः सामान्य-शुभ-मुहूर्तेषु न गण्यन्ते इति सः अवदत्।

विवाहस्य प्रमुखाः शुभ-मुहूर्ताः —

अप्रैल-मासः : १५, २०, २१, २५, २६, २७, २८, २९मई-मासः : १, ३, ५, ६, ७, ८, १३, १४जून-मासः : २१, २२, २३, २४, २५, २६, २७, २९जुलाई-मासः : १, ६, ७, ११, १२नवम्बर-मासः : २१, २४, २५, २६दिसम्बर-मासः : २, ३, ४, ५, ६

हिन्दुस्थान समाचार / अंशु गुप्ता