बाबा साहबः संविधाने निहितः अस्ति स्वतंत्रता, समानता, बंधुत्वं चेत्येषां सिद्धांतः : नीलिमा कटियारः
कानपुरम्, 14 अप्रैलमासः (हि.स.)। “बाबासाहेबस्य समतामूलकसमाजस्य स्वप्नस्य पूर्तये अस्माकं प्रेरणापुरुषैः निरन्तरः प्रयासः कृतः, अद्य तु नरेन्द्र मोदी अन्त्योदयस्य सिद्धान्तं अनुसृत्य तस्य स्वप्नस्य साकारकरणं कुर्वन्ति” इति मङ्गलवासरे भारतीय जनता पार
कार्यक्रम के दौरान लिया गया छायाचित्र


कानपुरम्, 14 अप्रैलमासः (हि.स.)। “बाबासाहेबस्य समतामूलकसमाजस्य स्वप्नस्य पूर्तये अस्माकं प्रेरणापुरुषैः निरन्तरः प्रयासः कृतः, अद्य तु नरेन्द्र मोदी अन्त्योदयस्य सिद्धान्तं अनुसृत्य तस्य स्वप्नस्य साकारकरणं कुर्वन्ति” इति मङ्गलवासरे भारतीय जनता पार्टी नगराध्यक्षः अनिल दीक्षित उक्तवान्।

भारतीय जनतापार्टीद्वारा संविधानशिल्पिनः ‘भारत-रत्न’ डॉ. भीमराव अंबेडकर महोदयस्य जयन्ती भव्यतया आचरिता। कार्यक्रमस्य आयोजनं नगराध्यक्षस्य अनिल दीक्षितस्य नेतृत्वे नवीन-मार्केट-स्थिते जिल्ला-कार्यालये कृतम्।

कार्यक्रमस्य आरम्भः बाबासाहेबस्य चित्रे माल्यार्पणं पुष्पाञ्जलिः च अर्पयित्वा कृतः। अस्मिन् अवसरॆ कार्यकर्तारः “यावत् सूर्यः चन्द्रश्च स्थास्यतः, तावत् बाबा तव नाम स्थास्यति” तथा “बाबा तव मिशनम् अधूरम्, नरेन्द्र मोदी तद् पूर्णं करिष्यति” इत्यादिभिः घोषवाक्यैः तं नतवन्तः।

कार्यक्रमे महापौरः प्रमिला पाण्डेय उक्तवती यत् बाबासाहेबः केवलं एकस्य वर्गस्य न, अपि तु सम्पूर्णसमाजस्य प्रेरणास्रोतः अस्ति। प्रदेश-उपाध्यक्षः तथा एम्.एल्.सी. सलिल विश्नोई उक्तवान् यत् बाबासाहेबेन समाजस्य अन्तिमपुरुषस्य उत्थानाय यत् कार्यं कृतम्, अद्य देशः तेनैव मार्गेण अग्रे गच्छति।

विधायिका नीलिमा कटियार उक्तवती यत् बाबासाहेबेन निर्मितं संविधानं देशाय दृढं लोकतान्त्रिकाधारं दत्तवान्, यस्मिन् स्वतन्त्रता, समानता, भ्रातृत्वं च निहितानि सन्ति।

कार्यक्रमस्य संचालनं महामन्त्री अवधेश सोनकर कृतवान्, धीरज वाल्मीकि च उपस्थितकार्यकर्तॄणां कृते संविधानस्य शपथं दापितवान्। अस्मिन् अवसरे अनुराग शर्मा, श्रीकिशन दीक्षित, प्रमोद विश्वकर्मा, अभिनव दीक्षित, नवाब सिंह, सीमा, जन्मेजय सिंह, शिवाङ्ग मिश्र, रोहित साहू इत्यादयः बहवः कार्यकर्तारः उपस्थिताः आसन्।

हिन्दुस्थान समाचार