विकासेन सहैव स्वच्छताविषये अपि सकारात्मकस्पर्धां कुर्वन्तु - विधानसभाध्यक्षः तोमरः
- विधानसभाध्यक्षेण २६-तमे वार्ड-क्षेत्रे प्रायः ३.५ कोटिरूप्यकाणां विकासकार्याणां भूमिपूजनं लोकार्पणं च कृतम् ग्वालियर, 14 अप्रैलमासः (हि.स.)।मध्यप्रदेश-विधानसभायाः अध्यक्षः नरेन्द्रसिंहतोमरः अवदत् यत् विकासेन सहैव वयं सर्वे स्वच्छताविषये अपि सकार
विधानसभा अध्यक्ष ने वार्ड-26 में किया लगभग 3.5 करोड़ रुपए के विकास कार्यों का भूमिपूजन व लोकार्पण


- विधानसभाध्यक्षेण २६-तमे वार्ड-क्षेत्रे प्रायः ३.५ कोटिरूप्यकाणां विकासकार्याणां भूमिपूजनं लोकार्पणं च कृतम्

ग्वालियर, 14 अप्रैलमासः (हि.स.)।मध्यप्रदेश-विधानसभायाः अध्यक्षः नरेन्द्रसिंहतोमरः अवदत् यत् विकासेन सहैव वयं सर्वे स्वच्छताविषये अपि सकारात्मकस्पर्धां कुर्याम। नगरं निर्मलं कर्तुं केवलं नगरनिगमस्य प्रयासाः पर्याप्ताः न सन्ति, अस्मिन् अस्माकं सर्वेषाम् अपि समाना सहभागिता आवश्यकी अस्ति।

​विधानसभाध्यक्षः तोमरः एतानि वचनानि मङ्गलवासरे बाबा साहब डॉ. भीमराव अम्बेडकरस्य जयन्त्यां तिकोनिया-पार्क-मुरार-क्षेत्रे आयोजिते विकासकार्याणां भूमिपूजन-लोकार्पण-कार्यक्रमे सम्बोधनकाले उक्तवान्। सः २६-तमस्य वार्ड-क्षेत्रस्य अन्तर्गतं विकासकार्याणां श्रृङ्खलां चालयितुं क्षेत्रीयपार्षदस्य ममता अरविन्द शर्मा महोदयायाः प्रशंसां कृतवान्।

​अस्मिन् अवसरे विधानसभाध्यक्षः तोमरः २६-तमस्य वार्ड-क्षेत्रस्य अन्तर्गतं प्रायः सार्ध-त्रि-कोटि (३.५) रूप्यकाणां व्ययेन निर्मितानां द्वादश-विकासकार्याणां भूमिपूजनं लोकार्पणं च कृतवान्। सहैव सः २६-तमस्य वार्ड-क्षेत्रस्य पार्षदया ममता अरविन्द शर्मा महोदयया २८ लक्षरूप्यकाणां व्ययेन एकास्मिन् वाहने सज्जीकृतां शीतल-शुद्ध-पेयजलस्य 'चलित-प्याऊ' (भ्रमणशीलं जलवितरणकेन्द्रं) अपि मुरार-क्षेत्रस्य आपणेषु समर्पितवान्।

​येषां कार्याणां शिलान्यासः भूमिपूजनं च कृतं, तेषु २६-तमस्य वार्डस्य विभिन्नबस्तिषु निर्माणाधीनाः सिमेण्ट-कङ्क्रीट-मार्गाः, नाल्यः, सामुदायिकभवनानि तथा अन्यानि विकासकार्याणि सम्मिलितानि सन्ति। कार्यक्रमे नगरनिगमसभापतिः मनोज तोमरः, भाजपा-जिलाध्यक्षः जयप्रकाश राजौरिया, पार्षदाः गिर्राज कंषाना, ममता अरविन्द शर्मा, रेखा त्रिपाठी, मञ्जुलता कुशवाहः, जयसिंह कुशवाहः, देवेश शर्मा, अशोक जैनः, बैजनाथ घुरैया, अशोक जादौनः इत्यादयः क्षेत्रीयजनप्रतिनिधयः तथा नगरनिगमस्य अपर-आयुक्तः टी. प्रतीक रावः च मञ्चासीनाः आसन्।

​विधानसभाध्यक्षः तोमरः अवदत् यत् प्रधानमन्त्रिणः नरेन्द्र मोदिनः मुख्यमन्त्रिणः डॉ. मोहन यादवस्य च नेतृत्वे केन्द्र-राज्यसर्वकाराभ्यां 'स्वर्णिम-भारतस्य' निर्माणाय महत्तरप्रयासाः क्रियन्ते। २०४७ तमवर्षपर्यन्तं 'विकसित-भारतस्य' निर्माणस्य लक्ष्यं वर्तते। वयं सर्वे अपि अस्मिन् पूर्णसमर्पणभावेन योगदानं दातुम् अग्रे आगच्छेम।

​सः देशे आर्थिकविषमतां दूरीकर्तुं सर्वकारेण आरब्धानां क्रान्तिकारि-कार्यक्रमाणां—यथा जनधनखाता, मुद्रा-योजना, उज्ज्वला-योजना, प्रधानमन्त्री-आवास-योजना इत्यादीनां विशेषरूपेण उल्लेखं कृतवान्। सहैव कार्यक्रमे उपस्थितानां युवकाणाम् आह्वानं कुर्वन् सः उक्तवान् यत् भवन्तः सर्वे सर्वकारस्य कौशल-उन्नयन-योजनानां लाभं गृहीत्वा कौशलवन्तः (हुनरमन्द) भवन्तु। अनेन रोजगारप्राप्तौ कापि कठिनाई न भविष्यति।

​नगरनिगमसभापतिः मनोज तोमरः अवदत् यत् २६-तमे वार्ड-क्षेत्रे क्षेत्रीयपार्षदस्य श्रीमती ममता अरविन्द शर्मा महोदयायाः प्रयासैः निरन्तरं विकासकार्याणि भवन्ति। अत्रत्यानि अन्यानि कार्याणि अपि नगरनिगमस्य सर्वकारस्य च योजनानां अन्तर्गतं कारयिष्यन्ते। सः अवदत् यत् सभापति-निधितः अपि २६-तमे वार्ड-क्षेत्रे विकासकार्यार्थं धनराशिः उपलब्धा कारिता अस्ति।

​प्रारम्भे बाबा साहब डॉ. भीमराव अम्बेडकरस्य चित्रे पुष्पाञ्जलिं समर्प्य विधानसभाध्यक्षः तोमरः कार्यक्रमस्य शुभारम्भं कृतवान्। सहैव सः बाबा साहब महोदयेन देशस्य निर्माणे दत्तस्य योगदानस्य उल्लेखं कृत्वा स्वभाषणस्य आरम्भं कृतवान्। विधानसभाध्यक्षः पट्टिकानां अनावरणं कृत्वा प्रायः सार्ध-त्रि-कोटिरूप्यकाणां विकासकार्याणां भूमिपूजनं लोकार्पणं च विहितवान्। तोमरः तिकोनिया-पार्के गोगादेव महाराजस्य प्रतिमायां माल्यार्पणम् अपि कृतवान्।

हिन्दुस्थान समाचार