Enter your Email Address to subscribe to our newsletters

- सतनायां श्रद्धोत्साहेन सह समाचरिता भारत रत्नस्य डॉ. अम्बेडकरस्य 135तमा जयंती
सतना, 14 अप्रैलमासः (हि.स.)।
मध्यप्रदेशस्य सतना जिल्लायां डॉ. भीमराव अम्बेडकर महोदयस्य १३५-तम्या जयन्त्या श्रद्धया उत्साहेन च समारोहपूर्वकं आयोजनं कृतम्। जिला-पञ्चायत-सभागारे आयोजिते कार्यक्रमे राज्यस्य नगरीयविकास-आवास-राज्यमन्त्री प्रतिमा बागरी उक्तवती यत् बाबासाहेबस्य जीवनचरित्रं तस्य संघर्षश्च आगामिपीढीनां कृते सदा प्रेरणादायकं भविष्यति।
अस्यां १३५-जयन्त्यां जिलास्तरीयसमारोहस्य शुभारम्भः राज्यमन्त्री प्रतिमा बागरी तथा सांसदः गणेश सिंह इत्याभ्यां बाबासाहेबस्य चित्रे माल्यार्पणं दीपप्रज्वलनं च कृत्वा कृतः। अस्मिन् अवसरॆ राज्यमन्त्री अवदत् यत् नियमाः अस्माकं जीवनं व्यवहारिकं व्यवस्थितं च कुर्वन्ति। बाबासाहेबः स्वजीवने बहून् संघर्षान् अनुभूय अपि सर्वेषां देशानां मध्ये श्रेष्ठतमं संविधानं निर्मितवान्। संविधाननिर्माणसमये विविधक्षेत्रेभ्यः पञ्चदशमहिलानां योगदानम् अपि आसीत्। अस्माकं संविधानं सुखसमृद्धयोः मार्गं दर्शयति, तथा सर्वे देशवासिनः न्यायिकप्रक्रियायां विश्वासं कृत्वा जीवनपथे अग्रे गच्छेयुः।
सा अपि अवदत् यत् संविधानेन प्रदत्तव्यवस्थायाः अन्तर्गतं प्रधानमन्त्री नरेन्द्र मोदी महोदयेन महिलानां आर्थिक-सामाजिक-शारीरिकसशक्तीकरणाय योजनाः नीतयश्च प्रवर्तिताः। नारीशक्ति-वन्दन-अधिनियमेन ग्रामपञ्चायतात् संसद्पर्यन्तं महिलानां सहभागिता सुगमिता कृताऽस्ति।
कार्यक्रमस्य अध्यक्षतां कुर्वन् सांसदः गणेश सिंह अवदत् यत् अद्य सम्पूर्णदेशः संविधाननिर्मातारं बाबासाहेबं श्रद्धया उल्लासेन च स्मरति। तस्य दूरदृष्टिः, विचाराः, आदर्शाश्च युगान्तरपर्यन्तं स्मरणीयाः भविष्यन्ति। सः अपि अवदत् यत् २०१४ वर्षे देशे महत्त्वपूर्णः राजनैतिकपरिवर्तनः अभवत्, तथा प्रधानमन्त्री नरेन्द्र मोदी महोदयेन लोकतन्त्रस्य मन्दिरं प्रणम्य बाबासाहेबस्य स्वप्नानां भारतनिर्माणाय संकल्पः कृतः।
सः अवदत् यत् बाबासाहेबस्य जन्म-शिक्षा-दीक्षा-निवासादयः जीवनसम्बद्धाः सर्वे स्थानानि अद्य तीर्थस्थानरूपेण प्रतिष्ठितानि सन्ति। प्रधानमन्त्रिणः नेतृत्वे केन्द्रसरकारः संविधानस्य आदर्शान् व्यवहारिकरूपेण स्थापयित्वा “एकभारत-श्रेष्ठभारत” तथा २०४७ पर्यन्तं विकसितभारतस्य लक्ष्यं प्रति अग्रे गच्छति।
जिला-पञ्चायतस्य उपाध्यक्षः सुस्मिता पङ्कजसिंह अवदत् यत् बाबासाहेबवत् महापुरुषाः शतकेषु एकवारं जायन्ते। तस्य जीवनसम्बद्धानि सर्वाणि स्थानानि देशस्य तीर्थस्थानानि अभवन्।
कार्यक्रमस्य अन्ते जनजातीयकार्यविभागस्य छात्रावासेषु विद्यालयेषु च पठन्तीनां छात्रच्छात्राणां कृते निबन्ध-रङ्गोली-भाषण-गायन-मेहन्दी-चित्रकला-प्रतियोगितासु सहभागितायाः निमित्तं प्रमाणपत्राणि पुरस्काराश्च वितरिताः। जिला-पञ्चायतस्य मुख्यकार्यकारी अधिकारी शैलेन्द्र सिंह एतस्मिन् अवसरे १४–१५ वर्षीयकिशोरीणां एचपीवी-टीकाकरण-अभियाने उत्कृष्टकार्यं कृतवन्तः आशा-कार्यकर्तारः, आङ्गनवाडी-कार्यकर्तारः, ए.एन.एम. तथा स्वास्थ्यकर्मिणः अपि प्रशस्तिपत्रैः सम्मानितवन्तः। कार्यक्रमस्य संचालनं परियोजनाधिकारी डॉ. गौरव शर्मा कृतवान्।
---------------
हिन्दुस्थान समाचार