Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 14 अप्रैलमासः (हि.स.)।
राष्ट्रपतिः द्रौपदी मुर्मुः, लोकसभाध्यक्षः ओम् बिरलः तथा गृहमन्त्री अमित शाहः मङ्गलवासरे देशवासिभ्यः नववर्षस्य शुभाशयाः प्रेषितवन्तः।
राष्ट्रपतिः ‘एक्स’ इत्यत्र उक्तवती यत्, “अहं बैसाखी, विशु, विषुव, बोहाग बिहू, पोइला बैसाख, मेषादि, वैशाखादि तथा पुथाण्डु इत्येषां शुभावसरे भारते विदेशेषु च वसन्तः सर्वान् देशवासिनः अभिनन्दामि शुभाशयांश्च ददामि।”
ओम् बिरलः अवदत् यत् बैसाखी, बोहाग बिहू, मेषादि पुथाण्डु (तमिल नववर्षम्), विशु (केरलनववर्षम्), पाना संक्रान्तिः (ओडिया नववर्षम्) तथा चीराओबा इत्येते उत्सवाः ‘एक भारत श्रेष्ठ भारत’ इति भावनां दर्शयन्ति तथा अस्माकं समृद्धविविधतायां एकताबन्धनं सुदृढं कुर्वन्ति। एते आनन्दमयाः अवसराः प्रत्येकस्य गृहे शान्तिं समृद्धिं नवाशां च आनयन्तु।
अमित शाहः अवदत् यत् प्रभोः जगन्नाथस्य आशीर्वादः सर्वेभ्यः सुखं स्वास्थ्यं च ददातु। अस्य नववर्षोत्सवस्य उत्साहेन अस्माकं संस्कृत्या सह सम्बन्धः अधिकं दृढः भवतु, सामाजिकएकता सुदृढा भवतु, सर्वेभ्यः सुखसमृद्धिः आनन्दः च लभ्यताम्।
केन्द्रीयसड़कपरिवहनराजमार्गमन्त्री नितिन गडकरीः अवदत् यत् एषः शुभावसरः भवतां जीवनस्य सर्वेषु पक्षेषु नूतनां ऊर्जां विकासं च स्थायिसुखं च आनयतु।
लोकसभायां विपक्षनेता राहुल गांधी अवदत् यत् एषः उत्सवः भवतां जीवनं बहुभिः आनन्दैः समृद्ध्या च पूरयतु।
केन्द्रीयस्वास्थ्यपरिवारकल्याणमन्त्री जेपी नड्डा अवदत् यत् एषः पावनः पर्वः सर्वेषां जीवनं सुखेन समृद्ध्या खुशहालतया च पूरयतु इति मम कामना। पुथाण्डोः अवसरस्य सर्वाभ्यः तमिलभगिनीभ्यः भ्रातृभ्यः च हार्दिकाः शुभाशयाः। आगामिवर्षं भवतां शान्त्या प्रगत्या सौभाग्येन च परिपूर्णं भवतु। परिवारैः सह आनन्देन उत्सवं मन्यध्वम्, आगामिवर्षं हर्षेण पूर्णं भवतु।
कांग्रेसस्य राष्ट्रियाध्यक्षः मल्लिकार्जुन खरगे अवदत् यत् देशस्य विविधेषु भागेषु नववर्षागमनस्य प्रतीकाः एते उत्सवाः नूतनाशां सकारात्मकतां नूतनारम्भस्य भावना च वहन्ति। ईश्वरः करोतु यत् एते उत्सवाः प्रत्येकं गृहम् आनन्दैः पूरयन्तु, समृद्धिं आनयन्तु, सर्वेषां मध्ये एकतां सौहार्दं च सुदृढं कुर्वन्तु।
---------------
हिन्दुस्थान समाचार