Enter your Email Address to subscribe to our newsletters

काठमाण्डूनगरम्, १४ अप्रैलमासः (हि.स.)। नेपालस्य प्रधानमन्त्री बालेन्द्रशाहः बैसाखी-पर्वणा आरभ्यमानस्य विक्रम-संवत् २०८३-नववर्षस्य अवसरे संस्कृत-श्लोकेन सर्वेभ्यः नागरिकेभ्यः शुभाशयाः प्रदत्तवान्, सुख-शान्ति-समृद्धिनां च कामनां कृतवान्।
प्रधानमन्त्री मङ्गलवासरे सामाजिक-माध्यमेषु लिखितवान्—
सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामयाः।सर्वे भद्राणि पश्यन्तु, मा कश्चिद् दुःखभाग् भवेत्॥
अस्य श्लोकस्य भावार्थं स्पष्टीकुर्वन् सः सर्वेषां जीवनस्य सुखम्, आरोग्यं, कल्याणं च अभिलषितवान्। सः उक्तवान् यत् सर्वदा शुभं भवतु, जीवनं निर्विघ्नं भवतु, दुःखस्य च नाशः भवतु। नववर्षस्य अस्मिन् पावनावसरे सर्वेभ्यः सुख-शान्ति-समृद्धिनां हार्दिकाः शुभाशयाः प्रदत्ताः।
नववर्षस्य प्रथमे दिवसे देशस्य विभिन्न-राजनैतिक-दलानां नेतारः, जनप्रतिनिधयः, विशिष्ट-व्यक्तयः च सामाजिक-माध्यमैः देशे विदेशे च वसतां नेपाली-नागरिकान् प्रति शुभाशयाः प्रेषयन्ति। अस्यां श्रृङ्खलायां बालेन्द्रशाहः अपि संस्कृत-श्लोकेन सर्वेषां कल्याणं कामितवान्।
उल्लेखनीयं यत् नेपाली-नववर्षं देशे सर्वत्र उत्साहेन आचर्यते। जनाः मन्दिरेषु पूजां कुर्वन्ति, सांस्कृतिक-कार्यक्रमैः सह नूतन-वर्षस्य स्वागतं कुर्वन्ति।
हिन्दुस्थान समाचार / अंशु गुप्ता