Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 14 अप्रैलमासः (हि.स.)।
नरेन्द्र मोदी प्रधानमन्त्री बैसाखी तथा महा बिषुबा पना संक्रांति इत्ययोः पवित्रयोः पर्वयोः अवसरे देशवासिभ्यः शुभाशंसाः अर्पितवान्।
प्रधानमन्त्रिणा X इत्यस्मिन् माध्यमे पृथक्-पृथक् संदेशयोः माध्यमेन उभयोः पर्वयोः सन्दर्भे जनानां सुख-समृद्धि-खुशहालीनाम् कामना कृता।
बैसाखी-पर्वणः अवसरे प्रधानमन्त्रिणा देशवासिनः अभिनन्दिताः, सर्वेषां जीवनं सुख-समृद्धिभिः पूर्णं भवतु इति कामना च कृता। अन्यस्मिन् संदेशे प्रधानमन्त्रिणा महा बिषुबा पना संक्रान्त्याः अवसरे अपि जनानां शुभाशंसाः प्रेषिताः, अस्य पर्वणः मंगलमयत्वं च अभिलषितम्।
---------------
हिन्दुस्थान समाचार