प्रधानमंत्रिणा दिल्ली–देहरादून आर्थिकवीथ्याः उद्घाटनं कृतम्
देहरादूनम्, 14 अप्रैलमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी मङ्गलवासरे उत्तराखण्डराज्यस्य देहरादूननगरे बहुप्रतीक्षितस्य दिल्लीदेहरादूनआर्थिकगलियारे उद्घाटनम् अकरोत्। अस्मिन् अवसरस्मिन् जनसभां सम्बोधयन् सः उक्तवान् यत् राष्ट्रस्य भाग्यरेखाः अस्मा
प्रधानमंत्री नरेन्द्र मोदी मंगलवार को देहरादून में कार्यक्रम को संबोधित करते हुए


देहरादूनम्, 14 अप्रैलमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी मङ्गलवासरे उत्तराखण्डराज्यस्य देहरादूननगरे बहुप्रतीक्षितस्य दिल्लीदेहरादूनआर्थिकगलियारे उद्घाटनम् अकरोत्।

अस्मिन् अवसरस्मिन् जनसभां सम्बोधयन् सः उक्तवान् यत् राष्ट्रस्य भाग्यरेखाः अस्माकं मार्गाः, राजमार्गाः, द्रुतमार्गाः, विमानमार्गाः, रेलमार्गाः, जलमार्गाः च भवन्ति। गतदशके अस्माकं देशः विकसितभारतस्य निर्माणाय एतादृशीनां विकासरेखानां निर्माणे निरतः अस्ति। एताः विकासरेखाः केवलं अद्यतनसुविधानि न, अपि तु आगामिपिढ्याः समृद्धेः गारण्टी अपि सन्ति। एषा ममापि गारण्टी अस्ति। गतदशकात् आरभ्य अस्माकं सर्वकारः एतेषु विकासरेखासु अभूतपूर्वनिवेशं कुर्वती अस्ति।

तेन उक्तं यत् उत्तराखण्डः स्वस्य स्थापनायाः पञ्चविंशतिवर्षाणि पूर्णानि कृत्वा षड्विंशतितमे वर्षे प्रविष्टः अस्ति। अद्य दिल्लीदेहरादूनद्रुतमार्गस्य उद्घाटनेन अस्य प्रगतेः एकं महत्त्वपूर्णं साधनं योजितम्। भवद्भिः स्मर्तव्यं यत् बाबाके़दारस्य दर्शनानन्तरं मया उक्तं यत् अस्य शताब्द्याः तृतीयदशकः उत्तराखण्डस्य दशकः भविष्यति। अद्य मम अत्यन्तं हर्षः अस्ति यत् द्विचक्रसरकारस्य नीतिभिः उत्तराखण्डनिवासिनां परिश्रमेण च एषः युवा राज्यः विकासस्य नवीनान् आयामान् योजयति। एषा परियोजना अपि प्रदेशस्य प्रगतिं नवीनवेगेन अग्रे नयिष्यति।

अयं प्रकल्पः प्रायः २१३ किलोमीटरदीर्घः षट्पन्थीयः प्रवेशनीयः मार्गः अस्ति, यस्य निर्माणं १२००० कोटिरूप्यकाधिकव्ययेन कृतम्। एषः प्रकल्पः दिल्ली, उत्तरप्रदेशः, उत्तराखण्डः च मध्ये संयोजनं दृढीकरिष्यति। अस्य विशेषता एषा अस्ति यत् दिल्लीतः देहरादूनपर्यन्तं यात्राकालः, यः पूर्वं षट्घण्टाधिकः आसीत्, अधुना केवलं द्वे अर्धघण्टे भविष्यति। अनेन यात्रिणः शीघ्रं सुरक्षितं सुलभं च यात्रानुभवं प्राप्स्यन्ति।

अस्मिन् प्रकल्पे दश अन्तर्संयोजनबिन्दवः, त्रयः रेलमार्गोपरिसेतवः, चत्वारः महापुलाः, द्वादश मार्गपार्श्वसुविधाः च निर्मिताः सन्ति। यातायातव्यवस्थापनसुरक्षयोः उन्नत्यर्थं उन्नतयातायातप्रबन्धनप्रणाली अपि स्थापिताऽस्ति।

पर्यावरणसंरक्षणं मनसि निधाय अस्मिन् मार्गे विशेषव्यवस्थाः कृताः सन्ति। वन्यजीवरक्षणाय मानववन्यजीवसंघर्षनिवारणाय च द्वादशकिलोमीटरदीर्घः वन्यजीवोन्नतमार्गः निर्मितः, यः एशियायाः दीर्घतमेषु मार्गेषु अन्यतमः अस्ति। अनेन सह अष्ट पशुमार्गाः, द्वौ द्विशतमीट्रदीर्घौ गजमार्गौ, दातकालीमन्दिरस्य समीपे ३७० मीटरदीर्घा सुरङ्गा च निर्मिता अस्ति।

उद्घाटनात् पूर्वं प्रधानमन्त्रिणा उत्तरप्रदेशस्य सहारनपुरे अस्य वन्यजीवमार्गस्य निरीक्षणं कृतम्, देहरादूनसमीपस्थिते जयमांदातकालीमन्दिरे पूजाअर्चना अपि कृता।

इयं वीथिका क्षेत्रीयआर्थिकविकासं प्रवर्धयितुं, पर्यटनं प्रोत्साहयितुं, व्यापारस्य नवानवसरान् सृजितुं च महत्त्वपूर्णां भूमिकां निर्वहिष्यति। एषः प्रकल्पः आधुनिकपूर्वाधारस्य पर्यावरणसन्तुलनस्य च उत्कृष्टं समन्वयदर्शकं उदाहरणं मन्यते।।

---------------

हिन्दुस्थान समाचार