प्रधानमन्त्री मोदी अद्य दिल्ली–देहरादून-आर्थिक-परिसरस्य उद्घाटनं करिष्यति
नवदिल्ली, १४ अप्रैलमास: (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी अद्य दिल्ली–देहरादून-आर्थिक-परिसरस्य (आर्थिक-मार्गस्य) उद्घाटनं करिष्यति। प्रायः २१३ किलोमीटर-दीर्घः अयं षड्-पंक्तियुक्तः एक्सेस-कण्ट्रोल-युक्तः परिसर: १२,००० कोटि-रूप्यकेभ्यः अधिकव्ययेन
भाजपा ने अपने एक्स हैंडल पर प्रधानमंत्री नरेन्द्र मोदी कार्यक्रम को एक्स पर साझा किया है।


नवदिल्ली, १४ अप्रैलमास: (हि.स.)।

प्रधानमन्त्री नरेन्द्रमोदी अद्य दिल्ली–देहरादून-आर्थिक-परिसरस्य (आर्थिक-मार्गस्य) उद्घाटनं करिष्यति। प्रायः २१३ किलोमीटर-दीर्घः अयं षड्-पंक्तियुक्तः एक्सेस-कण्ट्रोल-युक्तः परिसर: १२,००० कोटि-रूप्यकेभ्यः अधिकव्ययेन निर्मितः अस्ति। अयं परियोजना दिल्ली, उत्तरप्रदेशः च उत्तराखण्डः च मध्ये सम्पर्कव्यवस्थां नूतनां गतिं प्रदास्यति। एतस्य पूर्वसन्ध्यायां प्रधानमन्त्रिणः कार्यालयेन (पीएमओ) इति संस्थया एषा सूचना प्रदत्ता। भारतीय-जनता-पक्षेण अपि प्रधानमन्त्रिणः अद्यतनकार्यक्रमस्य संक्षिप्तविवरणं तस्य चित्रेण सह एक्स-माध्यमे प्रकाशितम्।

पीएमओ-अनुसारं प्रधानमन्त्री नरेन्द्रमोदी अद्य उत्तराखण्ड-उत्तरप्रदेशयोः यात्रां करिष्यति। प्रायः प्रातः ११:१५ वादने प्रधानमन्त्री उत्तरप्रदेशस्य सहारनपुरं गत्वा दिल्ली–देहरादून-आर्थिक-परिसरे एलिवेटेड-खण्डे वन्यजीव-परिसरे समीक्षां करिष्यति। प्रातः ११:४० वादने सः देहरादून-नगरस्य समीपे स्थिते ‘जय माँ डाट काली-मन्दिरे’ पूजां करिष्यति। ततः परं प्रायः मध्याह्ने १२:३० वादने देहरादूने आयोजिते सार्वजनिक-कार्यक्रमे प्रधानमन्त्री दिल्ली–देहरादून-आर्थिक-परिसरस्य उद्घाटनं करिष्यति तथा च जनसभां सम्बोधयिष्यति।

परिसरस्य विशेषताः

अस्या: परियोजनायाः प्रमुखं वैशिष्ट्यं यत् दिल्लीतः देहरादूनपर्यन्तं यात्रासमयः यः अधुना षड्-होराभ्यः अधिकः अस्ति, सः अस्य प्रारम्भानन्तरं प्रायः २.५ घण्टाभ्यः न्यूनः भविष्यति। तेन यात्रिणः शीघ्रतरं, सुरक्षिततरं, सुगमतरं च यात्रानुभवं प्राप्स्यन्ति।

अस्य परियोजनायां १० अन्तर्सम्पर्क-बिन्दवः (इण्टरचेञ्ज), ३ रेल-उपरि-सेतव: (आरओबी), ४ महापुलाः तथा १२ मार्ग-पार्श्व-सुविधाः विकसिताः सन्ति। तथा च यातायात-नियन्त्रणाय सुरक्षायै च उन्नत-यातायात-प्रबन्धन-प्रणाली (एटीएमएस) अपि संस्थापिता अस्ति।

पर्यावरण-संरक्षणं दृष्ट्वा अस्मिन् परिसरे विशेष-प्रावधानानि कृतानि सन्ति। वन्यजीवानां संरक्षणाय मानव-वन्यजीव-संघर्ष-न्यूनतायै च १२ किलोमीटर-दीर्घः ‘वन्यजीव-उपरि-गलियारा’ निर्मितः, यः एशिया-महाद्वीपे दीर्घतमेषु एकः मन्यते। तदतिरिक्तं अष्ट पशु-मार्गाः, २००-२०० मीटर-दीर्घौ द्वौ हस्ति-अण्डरपासौ तथा डाट काली-मन्दिरस्य समीपे ३७० मीटर-दीर्घा सुरङ्गा: अपि निर्मिताः सन्ति।

अयं परिसर: क्षेत्रीय-आर्थिक-विकासाय, पर्यटन-प्रोत्साहनाय, व्यापारस्य नूतन-अवसर-निर्माणाय च महत्त्वपूर्णां भूमिकां निर्वहिष्यति। इयं परियोजना आधुनिक-अवसंरचनायाः पर्यावरण-सन्तुलनस्य च समन्वयस्य उत्कृष्टं उदाहरणं मन्यते।

हिन्दुस्थान समाचार / अंशु गुप्ता