Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 14 अप्रैलमासः (हि.स.)।
प्रधानमन्त्री नरेन्द्रमोदी मङ्गलवासरे उपराष्ट्रपतिभवने उपराष्ट्रपतिं सी.पी. राधाकृष्णनं समागतवान् तथा पुथाण्डोः विशेषावसरे तस्मै शुभाशिषः अदात्।
उपराष्ट्रपतिः राधाकृष्णनः ‘एक्स’ इति माध्यमे अवदत् यत् “अद्य अत्र प्रधानमन्त्री मोदिनं मिलित्वा तमिळ पुथाण्डु तथा बैसाखी इत्येतयोः शुभावसरेषु शुभकामनाः दत्त्वा अहं अतीव हृष्टः अस्मि। वयं आगामिवर्षाय सुखं शान्तिं सर्वेषां कल्याणं च कामितवन्तौ। वयं एतस्मिन् विषये चर्चाम् अकुर्म यत् कथं तमिळ पुथाण्डु अस्माकं पूर्वजानां प्रज्ञां दर्शयति तथा परम्परां परिवारं आध्यात्मिकतां अनुशासितजीवनशैलीं च संयोजयति। देशे सर्वत्र समकालमेव आचर्यमाणानि एतानि नववर्षोत्सवाः अस्मान् अस्माकं सांस्कृतिकसमृद्धेः विविधतायाश्च स्मारयन्ति, तथा ‘एकभारतश्रेष्ठभारत’ इति भावनां अपि प्रकाशयन्ति।”
प्रधानमन्त्री मोदिनः ‘एक्स’ इति माध्यमे लिखितवान् यत् सः उपराष्ट्रपतिना थिरु सी.पी. राधाकृष्णनेन सह मिलित्वा पुथाण्डोः विशेषावसरे तस्मै शुभाशिषः अर्पितवान्। सः आगामिवर्षे उत्तमस्वास्थ्यं सुखसमृद्धिं च प्रार्थितवान्।
---------------
हिन्दुस्थान समाचार